________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ ४०६ ॥
रिणामापन्नत्वेन चक्षुर्ब्रहणच्छेदन भेदनाद्यविषयत्वादमुमपि व्यवहारनयः परमाणुं मन्यत इतीह परमाणुत्वेनोपन्यस्त इति ॥ ९१ ॥ उतं परमाणुस्वरूपं, इदानीं तदुपरिवर्तिनः शेषानुत्सेधाङ्गुलनिष्पत्तिकारणभूतानन्यानपि परिमाणविशेषानाह – 'परमाणू' इत्यादि, इह परमाणोरनन्तरं उपलक्षणस्य व्याख्यानादुच्छ्रलक्ष्णलक्ष्णिकादीनि त्रीणि पदानि गाथायामनुक्तान्यपि द्रष्टव्यानि, अनुयोगद्वारादिषु तथैवाभिधानायुक्तिसंगतत्वाच ततश्चानन्तैः परमाणुभिरेकस्या उच्छ्लक्ष्णऋणिकाया आगमेऽभिधानात्परमाणुं वर्जयित्वा सर्वेऽप्येते उच्छ लक्ष्णलक्षिणकाश्लक्ष्णलक्षिण कोर्ध्वरेणुत्रसरेणुरथरेण्वादयो यवपर्यन्ताः परिमाणविशेषा यथोत्तरमष्टगुणाः क्रमेण कर्तव्याः, तत उत्सेधाङ्गुलं निष्पद्यते, इयमत्र भावना - पूर्वोक्तव्यावहारिक परमाणवोऽनन्ता मिलिताः सन्त एका उच्छूलक्ष्णलक्ष्णिका भवति, अतिशयेन ऋक्ष्णाऋणऋण सैव क्ष्णलक्षिणका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्रक्ष्णलक्ष्णिका उच्छ्लक्ष्णलक्ष्णिका, अष्टाभिरुच्छ्लक्ष्णणिकामिरेका लक्ष्णलक्ष्णिका, प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वात् ऊर्ध्वरेण्यपेक्षया चाष्टमभागवर्तित्वात्, अष्टाभिः श्लक्ष्णलक्षिणकामिरेक ऊर्ध्वरेणुः, जालप्रभाऽभिव्यङ्ग्यः स्वतः परतो वा ऊर्ध्वाधस्तिर्यकूचलनधर्मा रेणुरूर्ध्वरेणुः, अष्टभिरूर्ध्वरेणुभिरेकस्त्रसरेणुः, त्रस्यति - पूर्वादिवातप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, अष्टमित्रसरेणुमिरेको रथरेणुः, भ्रमद्रथचक्रोत्खातो रेणू रथरेणुः, पूर्वः पौरस्त्यादिवातेषु चलति अयं तु तत्सद्भावेऽपि रथचक्राद्युत्खननमन्तरेण न चलतीत्यस्मात्पूर्वोऽल्पप्रमाणः, इह च बहुषु सूत्रादर्शेषु 'परमाणू रहरेणू तस| रेणू' इत्यादिरेव पाठो दृश्यते स चासङ्गत एव लक्ष्यते, रथरेणुमाश्रित्य त्रसरेणोरष्टगुणत्वानुपपत्तेः, उक्तन्यायेन विपर्ययस्यैव घटनादिति, यदपि संग्रहिण्यां 'परमाणू रहरेणू तसरेणू' इत्यादिरेत्र पाठो दृष्ट इत्युच्यते तत्रापि समानः पन्थाः, तस्यापि घटमानकत्वस्य चिन्त्यत्वादागमेन सह विरोधाद्युक्त्य संगतत्वाचेति, अष्टभी रथरेणुभिर्देवकुरूत्तरकुरु मनुष्याणां संबंधि एकं वालायं भवति, तैरष्टभिर्हरिव
Jain Education International
For Private & Personal Use Only
अंगुल - स्वरूपं
॥ ४०६ ॥
www.jainelibrary.org