SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ ४०५ ॥ स्राणि गोतीर्थ, गोतीर्थं नाम तडागादिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूप्रदेशो, गोतीर्थमिव गोतीर्थमिति व्युत्पत्तेः, मध्यभागावगाहस्तु दशयोजनसहस्रप्रमाणविस्तारः, गोतीर्थं च जम्बूद्वीपवेदिकान्तसमीपे धातकीखण्डवेदिकान्तसमीपे चाङ्गुलायेयभागः, ततः परं समतलाइ भूभागादारभ्य क्रमेण प्रदेशहान्या तावन्नीचत्वं नीचतरत्वं परिभावनीयं यावत्पश्वनवतियोजनसहस्राणि पञ्चनवतियोजनसइस्रपर्यन्ते च समतल भूभागमपेक्ष्य उण्डत्वं योजनसहस्रमेकं तथा जम्बूद्वीपवेदिकातो धातकीखण्डद्वीपवेदिकातञ्च समतले भूभागे प्रथमतो वृद्धिरङ्गलसोयभागः, ततः समतलभूभागमेवाधिकृत्य प्रदेशवृद्ध्या जलराशिः क्रमेण परिवर्धमानः परिवर्धमानः तावत्प|रिभावनीय यावदुभयतोऽपि पञ्चनवतियोजनसहस्राणि पञ्चनवतियोजनसहस्रपर्यन्ते चोभयतोऽपि समभूभागमपेक्ष्य जलवृद्धिः सप्त योजनशतानि, किमुक्तं भवति ? तत्र प्रदेशे समभूभागमपेक्ष्यावगाहो योजनसहस्रं तदुपरि जलवृद्धिः सप्त योजनशतानीति, ततः परं मध्ये भूभागे दशयोजनसहस्रविस्तारेऽवगाहो योजनसहस्रं जलवृद्धिः षोडश योजनसहस्राणि, पातालकलशगतवायुक्षोभे च तेषामुपरि अहोरात्रमध्ये द्वौ वारौ किञ्चिन्न्यूने द्वे गव्यूते उदकमतिरेकेण परिवर्धते पातालकलशगत वायुपशान्तौ च हीयते ॥ २५३ ॥ ८८ ॥ इदानीं 'उस्सेहंगुल आयंगुलपमाणंगुलपमाणं ति चतुःपञ्चाशदधिकद्विशततमं द्वारमाह Jain Education International उस्सेहंगुल १ मायंगुलं च २ तइयं पमाणनामं च ३ । इय तिन्नि अंगुलाई वावारिजंति समयंमि ॥ ८९ ॥ सत्थेण सुतिक्खेणवि छेत्तुं भेत्तुं च जं किर न सका । तं परमाणुं सिद्धा वयंति आई पमाणानं ॥ ९० ॥ परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा ज्या य जवो अट्ठगुणविवढिया कमसो ॥ ९१ ॥ वीसंपरमाणुलक्खा सत्तानउई भवे सहस्साईं । सयमेगं For Private & Personal Use Only ४ २५१ पूर्वागमानं २५२ पूर्वमानं २५३ लवणशिखा २५४ अंगुलस्वरूपं ॥ ४०५ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy