________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ४०४ ॥
त्रियो भवन्ति, स्तनवजणि शेषाणि नत्र पुरुषस्य, एतच मनुजगतिमाश्रित्य प्रोक्तं, तिर्यग्गतौ तु अजादीनां द्विस्तनीनामेकादश श्रोत्राणि, | गवादीनां चतुःस्तनीनां त्रयोदश, सूकर्यादीनामष्टस्तनीनां सप्तदश, निर्व्याघाते एवं व्याघाते पुनरेकस्तन्या अजाया दश, त्रिस्तन्याश्च गोर्द्वादशेति, इत्येवमस्थ्यादिसंघातरूपे शरीरे किं नाम स्वरूपतः शुचित्वं ? न किञ्चिदित्यर्थः ॥ २४८ ॥ ८३ ॥ इदानीं 'सम्म साईणुत्तमगुणाण लाहंतरं तु उक्कोसं' इत्येकोनपञ्चाशदधिकद्विशततमं द्वारमाह-
सम्मत्तंमि य ल पलियपुहुत्तेण सावओ होइ । चरणोवसमखयाणं सायरसंखंतरा हुंति ॥ ८४ ॥ यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पल्योपमपृथक्त्वलक्षणे स्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत्, ततञ्चरणोपशमक्षयाणामन्तरा संख्यातानि सागरोपमाणि भवन्ति, इयमत्र भावना देशविरतिप्राप्त्यनन्तरं संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवाप्नोति, ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणिं प्रतिपद्यते, ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु क्षपकश्रेणिर्भवति, ततस्तद्भवे मोक्ष इति एवमप्रतिपतितसम्यक्त्वस्य देवमनुष्यजन्मसु संसरणं कुर्वतोऽन्योऽन्यमनुष्यभवे देशविरयादिलाभो भवति, यदिवा तीव्र शुभ परिणामवशात्क्षपित बहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्ज्यान्येतानि सर्वाण्यपि भवन्ति, श्रेणिद्वयं त्वेकस्मिन् भवे सैद्धान्तिकाभिप्रायेण न भवत्येव, किंत्वेकैवोपशमश्रेणिः क्षपकश्रेणिर्वा भवतीति, उक्तं च "एवं अप्परिवड़िए सम्मचे देवमणुयजम्मेसु । अन्नयरसेढिवज्जं एगभवेणं च सब्वाई ॥ १ ॥” [ एवमप्रतिपत्तिते सम्यक्त्वे देवमनुजजन्मसु अन्यतरश्रेणिवर्जानि एकभवेनैव सर्वाणि ॥ १ ॥ ] ॥ २४९ ॥ ८४ ॥ इदानीं 'न लहंति माणुसत्तं सत्ता जेऽणंतरुवट्ट'ति पञ्चाशदधिकद्विशततमं द्वारमाह--- सत्तममहिनेरइया तेऊ वाऊ अनंतरुबट्टा । न लहंति माणुसरां तहा असंखाच्या सवे ॥ ८५ ॥
Jain Education International
For Private & Personal Use Only
२४९ स
म्यक्त्वदे
शिविरत्यादिलाभा
न्तरं २५० नरत्वेऽना
गमकाः
गा.
१३८४-५
॥ ४०४ ॥
www.jainelibrary.org