SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ SR CANCCCCCASC-1945 शिराणां षष्ट्यधिकं शतं भवति, ताः पुनर्बाहुबलकारिण्यः, उपघाते च सति कुक्षिउदरवेदनाः कुर्वन्ति, तथाऽन्याः पञ्चविंशतिः शिराः श्लेष्मधारिण्यो भवन्ति, तथा पित्तधारिण्योऽपि पञ्चविंशतिः शिराः, दश च शिराः शुक्राख्यसप्तमधातुधारिण्यः, इत्येवं नामिप्रभवाणि 8. सप्तशिराशतानि पुरुषस्य शरीरे भवन्ति ।। ७२ ॥ ७३ ॥ ७४ ॥ ७५ ॥ ७६ ॥ ७७ ॥ ७८ ॥ अथ स्त्रीनपुंसकयोः कियन्त्य एता भवन्तीत्याशयाह-तीसूणाई' इत्यादिगाथाचतुष्कं, त्रिंशता न्यूनानि स्त्रीणां सप्त शिराशतानि भवन्ति, विंशत्या च हीनानि सप्त शतानि | शिराणां भवन्ति षण्ढस्य-नपुंसकस्य, तथा स्नायूनाम्-अस्थिबन्धनशिराणां शतानि नव च धमन्यो रसवहा-नाड्यो देहे ॥ ७९ ॥ तथा सर्वस्मिन्नपि देहे नवनवतिर्लक्षा रोमकूपाणां भवन्ति, रोम्णां-तनूरुहाणां कूपा इव कूपा रोमकूपा-रोमरन्ध्राणीत्यर्थः, एतच्च संख्यानं श्मश्रुकेशैविनाऽवसेयं, तैस्तु सह सार्धास्तिस्रः कोट्यो रोमकूपानां जायन्ते, तन श्मश्रूणि-कूर्चकचाः, केशास्तु-शिरोरुहा इति ॥८॥ शरीरे सर्वदैव मूत्रस्य शोणितस्य च प्रत्येकमवस्थितमाढकं मगधदेशप्रसिद्धमानविशेषरूपं भणन्ति, उक्तं च-"दो असईओ पसई, दो पसइओ सेइया, चत्तारि सेइयाउ कुलओ, चत्तारि कुडवा पत्थो, चत्तारि पत्था आढयं, चत्तारि आढया दोणो” इत्यादि, धान्यभृतोऽवाङ्मुखीकृतो हस्तोऽसतीत्युच्यते, वसायास्त्वर्धाढकं भणन्ति, मस्तकभेजको मस्तुलुङ्कवस्तु, अन्ये त्वाहुः-मेदपिप्पिसादि मस्तु-| लुङ्गं, तस्यापि प्रस्थं यथोक्तरूपं वदन्ति ॥ ८१ ॥ अशुचिरूपो योऽसौ मलस्तस्य प्रस्थषट्कं भवति, पित्तश्लेष्मणोः प्रत्येकं यथानिर्दिष्टस्वरूपः कुलवो भवति, शुक्रस्त्वर्धकुलवः, एतच्चाढकप्रस्थादिकं मानं बालकुमारतरुणादीनां 'दो असइओ पसईत्यादिक्रमेणात्मीयात्मीयहस्तेनानेतव्यं, उक्तमानाञ्च शुक्रशोणितादेयंत्र हीनाधिक्यं भवति तत्र वातादिदूषितत्वेनेति ज्ञेयं ।। ८१॥ अथ श्रोत्राणि शरीरे यावन्ति भवन्ति तावत्युपदश्र्योपसंहरति-'एक्कारसे'त्यादि, द्वौ कौँ द्वे चक्षुषी द्वे घ्राणे मुखं स्तनौ पायुरुपस्थश्चेत्येवमेकादश श्रोत्राणि CISERSACCU Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy