________________
सुफस्स अद्धकुलओ बुद्धं हीणाहियं होजा ॥ ८२ ॥ एक्कारस इस्थीप नय सोयाइं तु हुंति पुरिसस्स । इप किं सुइत्तणं अट्टिमंसमलरूहिरसंघाए १ ॥ ८३ ॥
वर्षाणां पञ्चपञ्चाशतः परत आर्तवाभावान्महिलानां योवि: प्रम्लायति - गर्भोत्पत्तिकारणतां न प्रतिपद्यते, भावार्थस्तु निशीथचूर्ण्यक्षरैरुपदश्यते— “इत्थीए जाव पणपन वासा न पूरंति ताव अमिलिया (लाणा) जोणी, आर्तवं भवति गर्भ च गृह्णातीत्यर्थः, पणपन्नवासाए पुण कस्सइ अन्तवं भवति न पुण गब्भं गिण्हइ, पणपन्नाए परओ नो अत्तवं नो गब्भं गिन्हइ"न्ति, तथा वर्षाणां पश्चसप्ततेः परतः प्रायेण नरः- पुमान् भवत्यबीजो - गर्भाधानयोग्य वीर्यचिवर्जितः ॥ ६५ ॥ कियत्प्रमाणायुषां पुनरेतन्मानं द्रष्टव्यमित्याह - 'वासे' त्यादि, वर्षशतायुषामैदंयुगीनानामेवैतद्-गर्भधारणादिकालमानमुक्तं द्रष्टव्यं परेण तर्हि का वार्ता ? इत्याह- 'परेण जा होइ पुबकोडीओ' इत्यादि, वर्षशतात्परतो वर्षशतद्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहादिमनुष्याणां या पूर्वकोटिः सर्वायुष्के भवति तस्य सर्वायुषोऽर्ध तदर्ध यावदम्लाना - गर्भधारणक्षमा युवतीनां योनिर्द्रष्टव्या, ततः परतः सकृत्प्रसवधर्मिणोऽम्लानयोनयश्चावस्थितयौवनत्वात्, पुरुषाणां तु सर्वस्यापि | पूर्वकोटिपर्यन्तस्य स्वायुषोऽन्त्यो विंशतितमो भागोऽबीजो भवति २४७ ॥ ६६ ॥ इदानीं 'सुक्काईण पमाणं' त्यष्टचत्वारिंशदधिकद्विशततमं द्वारमाह-'बीय' मित्यादि, बीजं-कारणं तच शरीरस्य शुक्रं तथा शोणितं च पितुः शुकं मातुः शोणितं एतद् द्वयमपि शरीरस्य कारणमित्यर्थः, स्थानं तु तस्यादौ जननीगर्भे-मातुरुदरमध्यभागे, शुक्रशोणितसमुदाय ओज इत्युच्यते, शरीरोपष्टम्भस्यापि प्रथमतस्तदेव हेतुः कारणमित्यर्थः, तस्य शरीरस्य स्वरूपं तु 'अट्ठारसपिट्ठकरंडयस्स' इत्यायनन्तरवक्ष्यमाणलक्षणमिति शेषः ॥ ६७ ॥ | तदेवाह --- 'अट्टे' व्यादिगाथाद्वयं देहे - मनुष्यशरीरे पृष्ठकरण्डकस्य - पृष्ठवंशस्याष्टादश प्रन्थिरूपाः संघयो भवन्ति, यथा वंशस्य पर्वाणि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org