________________
सतिपाटकादिपरिग्रहः, अयमाशयः-एकस्यामपि वसतौ यस्यां दिशि संस्तारको मासं यावदास्तीर्णस्तां दिशं मासे पूर्णे परित्यज्यापरस्या दिशि संस्तारक आस्तरणीयः, एवमपरवसतिसद्भावे मासादनन्तरमपरवसतौ सङ्क्रमः करणीयः, एवं च कुर्वतां मासकल्पविहाराभावेऽपि यतित्वमविरुद्धमेव, यदवाचि-"पंचसमिया तिगुत्ता उजुत्ता संजमे तवे चरणे । वाससयंपि वसंता मुणिणो आराहगा भणिया ॥१॥” इत्यादि । ७७४ ।। अथैकस्मिन् क्षेत्रे उत्कृष्टमवस्थानकालमानमाह-'कम्हिंपी'त्यादि, कस्मिंश्चित् क्षेत्रे कृत्वाविधाय आषाढमासे मासकल्पं 'तत्रैव' तस्मिन्नेव क्षेत्रे 'स्थितानां कृतवर्षाकालानां यावन्मार्गशीर्षे-मार्गशीर्षविषयाणि त्रिंशदिनानि एष 'सालम्बनानां' पुष्टकारणसेविनां ज्येष्ठ-उत्कृष्टोऽवग्रहः-एकत्रावस्थानलक्षणः पाण्मासिकः-षण्मासप्रमाणो भवति, इदमुक्तं भवति |-यत्र उष्णकालस्य चरमो मासकल्पः कृतस्तत्र तथाविधान्यक्षेत्राभावतो वर्षाकालं यदि तिष्ठन्ति वर्षाकाले च व्यतिक्रान्ते यदि मेघो
वर्षति ततोऽन्यद्दिवसदशकं तत्र तिष्ठन्ति तस्मिन्नपि समाप्तिमुपगते यदि पुनर्वर्षति ततो द्वितीयं दिवसदशकं तिष्ठन्ति तस्मिन्नप्यतीते | पुनर्वृष्टस्तदा तृतीयमपि दिवसदशकं तत्र तिष्ठन्ति, एवमुत्कर्षतस्त्रीणि दिवसदशकानि वृष्ट्याद्यालम्बनमाश्रित्य स्थितानां षण्मासप्रमाण | उत्कृष्टोऽवग्रहो भवति, तद्यथा-एको ग्रीष्मचरममासः चत्वारो वर्षाकालमासाः षष्ठो मार्गशीर्षों दिवसदशकत्रयलक्षण इति ॥ ७७५ ।। | अथ मार्गशीर्षे न वर्षति मार्गाश्च हरितकर्दमाद्यनाकुलास्तत्र किं कर्तव्यमित्याह-'अहे'त्यादि, अथास्ति पादाना-चरणानां विचारो| गमनानुकूलता, तत इति शेषः, 'चउपाडिवयंमि'त्ति चतसृणां प्रतिपदां समाहारश्चतुःप्रतिपत्, अत्र च प्रतिपदो मासान्तवर्तिन्यो विवक्षिताः, ततः कार्तिकानन्तरं भवति निर्गमन-विहार इत्यर्थः, अथ विहारयोग्येऽपि समये न निर्गच्छति तदा तस्य साधोरनिर्ग|च्छतस्ततः स्थानादारोपणं-प्रायश्चित्तं सूत्रनिर्दि-सूत्रकथितं भवतीति ॥ ७७६ ।। नन्वेकत्र क्षेत्रे स्थितानां यतनापराणामपि यतीनां
चत्वारो बाध्यमित्याह हारतुःप्रतिन निर्ग
in Education Internano
For Private & Personel Use Only
www.jainelibrary.org