________________
*4-
5
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
१०४ अप्रतिबद्धविहारः |गा.७७२
॥२२६॥
.- 30
कुलप्रतिबन्धादयो बहवो दोषा एव भवन्ति ततः कथमिदं युक्तमित्याह-एगे'त्यादि, एकस्मिन् क्षेत्रे निवास एकक्षेत्रनिवासः तस्मिन् | सति यद्यपि 'कालातिक्रान्तचारिणः' समयभणितकालातिक्रमचारिणो यतयस्तथापि 'हुः स्फुटं 'विशुद्धचरणा' निरतिचारचारित्रास्ते 'येन' यतः कारणात् 'विशुद्धालम्बना' विशुद्धं-शाठ्येनादूषितं वार्धकजङ्घाबलपरिक्षीणताविहारायोग्यक्षेत्रादिकमालम्बनं-कारणं येषां ते विशुद्धालम्बना इति ॥ ७७७ ॥ अथ कस्मादालम्बनमन्वेषणीयमित्याह-'सालंबे'त्यादि, आलम्ब्यते-पतद्भिराश्रीयते इत्यालम्बनं, तच्च द्विविध-द्रव्यतो भावतश्च, तत्र गर्तादौ प्रपतद्भिर्यद् द्रव्यमालब्यते तद् द्रव्यालम्बनं, तदपि द्रव्यं द्विविधं-पुष्टमपुष्टं च, तत्रापुष्टदुर्बलं कुशवल्वजादि पुष्टं तु दृढं कठोरवल्ल्यादि, भावालम्बनमपि पुष्टापुष्टभेदाद् द्विधा, तत्र पुष्टं वक्ष्यमाणं तीर्थाव्यवच्छित्त्यादि, शठतया स्वमतिमात्रोत्प्रेक्षितं त्वपुष्टं, ततश्च सह आलम्बनेन वर्तत इति सालम्बनः, असौ पतन्नप्यात्मानं दुर्गमेऽपि-गर्तादौ पुष्टालम्बनावष्टम्भतो धारयति, 'इति' एवमेव सह आलम्बनेन वर्तत इति सालम्बनः एवम्भूतः सन् किमपि नित्यवासादिकं सेवते-भजते इति | सालम्बनसेवी 'यतिः' साधुः संसारगर्तायां पतन्तमात्मानमशठभावं-मातृस्थानरहितं धारयतीत्येष आलम्बनान्वेषणे गुणः ॥ ७७८ ॥ कानि पुनस्तान्यालम्बनानीत्याह-काह'मित्यादि, यः कश्चिदेवं चिन्तयति यथा करिष्याम्यहमत्र स्थितोऽच्छित्ति-अव्यवच्छित्तिं जिनधर्मस्येति शेषः, राजादेर्जिनशासनावतारणादिमिः, 'अदुवे'ति अथवा अहमध्येष्ये सूत्रतोऽर्थतश्च द्वादशाङ्गं दर्शनप्रभावकाणि वा शास्त्राणि, यदिवा तपोलब्धिसमन्वितत्वात्तपोविधानेषु नानाप्रकारेषु तपस्सु 'उज्जमिस्सं'ति उद्यस्यामि उद्यमं करिष्यामि, 'गणं वा' गच्छं वा 'नीइसु यत्ति सप्तम्यास्तृतीयार्थत्वान्नीतिमिः सूत्रोक्ताभिः सारयिष्यामि-गुणैः प्रवृद्धं करिष्यामि, स एवं सालम्बनसेवीएतैरनन्तरोदितैरालम्बनैर्यतनया नित्यवासमपि प्रतिसेवमानो जिनाज्ञानुल्लङ्घनात्समुपैति-प्राप्नोति 'मोक्षं सिद्धिं, तस्मात्तीर्थाव्यवच्छेदा
RASNASAX
Jain Education International
For Private
Personel Use Only
www.jainelibrary.org