________________
|व्युत्सृजामः, एतान्यष्टादश पापहेतूनि स्थानकानि पापस्थानकानि, न केवलमेतान्येव, किंतु अन्तिमे उच्छासे, परलोकगमनसमये इत्यर्थः, देहमपि निजं शरीरमिति व्युत्सृजामः, तत्रापि ममत्वमोचनात् जिनादिप्रत्यक्षं-तीर्थकरसिद्धादीनां समक्षमिति, तत्र प्राणातिपात
मृषावादादत्तादानमैथुनपरिग्रहरात्रिभक्तक्रोधमानमायालोभाः प्रतीताः, तथा राग:-अनमिव्यक्तमायालोभलक्षणस्वभावभेदममिध्वङ्गमात्र, P'दोसो'त्ति द्वेषणं द्वेषः दूषणं वा दोषः, स चानमिव्यक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीतिमात्रं, कलहो-राटी अभ्याख्यान-प्रकटमसहो-|
पारोपणं पैशून्य-पिशुनकर्म प्रच्छन्नं सदसदोषाविर्भावनं, तथा परेषां परिवादः परपरिवादो-विकत्थनमित्यर्थः, तथा माया च
निकृतिः मृषा च-मृषावादः मायया वा सह मृषा मायामृषा प्राकृतत्वान्मायामोसं मायामुसं वा दोषद्वययोगं, इदं च मानमृषादिदोकापसंयोगोपलक्षणं, वेशान्तरकरणेन लोकप्रतारणमित्यन्ये, तथा मिथ्यादर्शनं-विपर्यस्ता दृष्टिः तदेव तोमरादिशल्यमिव शल्यं दुःखहे.
तुत्वान्मिध्यादर्शनशल्यमिति, स्थानाङ्गे च रात्रिभोजनं पापस्थानमध्ये न पठितं किंतु परपरिवादाग्रतोऽरतिरतिः, तस्य चायमर्थः-अरतिश्च-तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणः रतिश्च-तथाविधानन्दरूपा अरतिरतिरित्येकमेव विवक्षितं, यतः कचन विषये या |रतिस्तामेव विषयान्तरापेक्षयाऽरति व्यपदिशन्ति, एवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति, तथा रागपदस्थाने पिज्जपदं च* |पठन्ति, तत्र च प्रियस्य भावः कर्म वा प्रेम, अर्थस्तु रागपवाच्य एवेति, २३७ ॥५१॥ ५२ ॥ ५३ ॥ इदानीं 'मुणिगुण सत्तावीसं'त्यष्टत्रिंशदधिकद्विशततमं द्वारमाह__ छच्चय छकायरक्खा पंचिंदियलोहनिग्गहो खंती । भावविसुद्धी पडिलेहणाइकरणे विसुद्धी य
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org