________________
प्रव० सारोद्धारे
२३८श्रमणगुणाः
गा. १३५४-५
नवि०
MOROGORO **
॥३९९॥
|
॥५४॥ संजमजोए जुत्सय अकुसलमणवयणकायसंरोहो । सीयाइपीडसहणं मरणंउ(तु वसग्ग
सहणं च ॥५५॥ षट् ब्रतानि-प्राणातिपातविरमणादीनि रजनिभोजनपर्यवसानानि षण्णां कायानां-पृथिव्यादित्रसान्तानां रक्षा-संघपरितापार्दिषरिहारेण सम्यगनुपालन पञ्चानामिन्द्रियाणां-श्रोत्रादीनां निग्रहो-नियत्रणं, इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः,लोभस्य च निग्रहो -विरागता झान्ति:-क्रोधनिग्रहः भावविशुद्धिः-अकलुषान्तरात्मता प्रतिलेखनादिकरणे च विशुद्धिः, शुद्धेनाध्यवसायेन सम्यगुपयुक्ततया प्रत्युपेक्षणादि क्रियाकरणमित्यर्थः, तथा संयमोपष्टम्भको योऽसौ योगो-व्यापारस्तत्र युक्तता-तत्परता अकुशलाना-अप्रशस्तानां मनोवचःकायानां संरोधो-निषेधः, प्रशस्तानामेव तेषां करणमिति तात्पर्य, शीतवातातपादिजनितायाः पीडायाः-वेदनायाः सहनं-सम्यग्मर्षणं, 'मरणान्तोपसर्गसहनं च' मरणमन्ते येषां ते मरणान्ता-मरणहेतव इत्यर्थः ते च ते उपसर्गाश्च मरणान्तोपसर्गास्तेषां सहनं कल्याणमित्रबुद्ध्या सम्यक्तितिक्षणं, एते सप्तविंशतिर्मुनीना-अनगाराणां गुणाः-चारित्रविशेषा भवन्ति । अन्यत्र पुनरित्थमनगारगुणा उक्ताः-महाव्रतानि पञ्च ५ इन्द्रियनिग्रहाश्च पञ्च १० क्रोधादि विवेकाश्चत्वारः १४ सत्यानि त्रीणि, तत्र-भावसत्यं-शुद्धान्तरात्मता करणसत्यंयथोक्तप्रतिलेखनादि क्रियाकरणं योगसत्यं-मनःप्रभृतीनामवितथत्वं १७ क्षमा-अनमिव्यक्तक्रोधमानस्वरूपस्य द्वेषसंज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः, क्रोधमानशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधः प्रागमिहित इति न पौनरुक्त्यं १८ विरागताअभिष्वङ्गमात्रस्याभावः, यद्वा मायालोभयोरनुदयो, मायालोमविवेकशब्दाभ्यां तूदयप्राप्त्योस्तयोनिरोधः प्रागमिहित इतीहापि न पुनरु
SARAARAKACAR
र
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org