________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ३९६ ॥
पथ्थक संयोगस्त्वेक एवेति एते च संयोगा 'एगाई एगुत्तरे' त्यादिना करणेनाक्षसंचारणया वा समानेतव्याः, भावना तु प्रागेव प्रदर्शिता | ॥ ४४ ॥ अथ पञ्चमदेवकुलिकाया गुण्यराशीनाह - 'छच्चेवे' त्यादि, आदौ षडेव ततः षत्रिंशत् 'सोलदुगं चेव'ति द्वे शते षोडशोत्तरे, 'नव दुग एक' मिति द्वादश शतानि पण्णवत्यधिकानि 'छ सत्त सत्त सत्त य'त्ति सप्तसहस्राः सप्त शतानि षट्सप्तत्युत्तराणि, | पञ्चानामपि व्रतानामेतद्गुणनस्य-ताडनस्य पदं स्थानं, गुण्यराशयः इत्यर्थः ॥ ४५ ॥ अथ पञ्चमदेवकुलिकाया एवागतराशीनाह'वये 'त्यादिगाथात्रयं, व्रतसंबन्धिनामेककसंयोगानां पञ्चानां त्रिंशद्भङ्गा भवन्ति, द्विकसंयोगानां दशानामपि त्रीणि शतानि षष्ट्यधिकानि भवन्ति, त्रिकसंयोगानां दशानामेकविंशतिर्भङ्गशतानि षष्ट्यधिकानि - पष्ट्यधिकशतोत्तरे द्वे सहस्रे इत्यर्थः, चतुःसंयोगपञ्चके पञ्चानां चतुकसंयोगानां चतुःषष्टिः शतान्यशीत्युत्तराणि भवन्ति, पञ्चके - पञ्चकसंयोगे पुनः सप्तसप्ततिः शतानि षट्सप्तत्युत्तराणि भङ्गानां भवन्ति । | इयमत्र भावना - कश्चित्स्थूलप्राणातिपातविरमणादीनि पश्चाणुत्रतानि प्रतिपद्यते, तत्र किल पञ्चैककसंयोगाः, एकैकस्मिंश्च एककसंयोगे द्विविधत्रिविधादयः षट् पङ्गङ्गा भवन्ति, ततः षट् पञ्चभिर्गुण्यन्ते जातास्त्रिंशत्, एतावन्तः पञ्चानां व्रतानामेककसंयोगे भङ्गाः, तथा एकैकस्मिन् द्विकसंयोगे पत्रिंशत् पत्रिंशद्भङ्गाः, तथाहि - प्राणातिपातत्रतसंबन्धी द्विविधत्रिविधलक्षणः प्रथमो भङ्गकोऽवस्थितो मृषावादसत्कान् पङ्गङ्गान् लभते, एवं प्राणातिपातत्रतसंबन्धी द्विविधद्विविधलक्षणो द्वितीयोऽपि भङ्गकोऽवस्थितो मृषावादसत्कान् पङ्गङ्गान् लभते, एवं प्राणातिपातत्रतसंबन्धी द्विविधैकविधलक्षणस्तृतीयोऽपि भङ्गकः एकविधत्रिविधलक्षणः चतुर्थोऽपि एकविधद्विविधलक्षणः पञ्चमोऽपि एकविधैकविधलक्षणः षष्ठोऽपि भङ्गकोऽवस्थितः एवं मृषावादसत्कान् षट्षङ्गङ्गान् प्रत्येकं लभते, ततश्च पद् पनिगुणिताः पत्रिंशत्, दश चात्र द्विकसंयोगा भवन्तीत्यतः पटूत्रिंशद्दशभिर्गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि, एतावन्तः
Jain Education International
For Private & Personal Use Only
२३६ श्रावकत्रतभङ्गाः
॥ ३९६ ॥
www.jainelibrary.org