________________
C ESCORN
ACCCCC
पञ्चानां व्रतानां द्विकसंयोगे भङ्गाः, भङ्गामिलापश्चैवं-स्थूलप्राणातिपातं प्रत्याख्याति द्विविधं त्रिविधेन स्थूलमृषावादमपि द्विविधं त्रिवि-12 धेन १ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं तु द्विविधं द्विविधेन २ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं तु द्विविधमेकविधेन ३ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं त्वेकविधं त्रिविधेन ४ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं त्वेकविधं द्विविधेन ५ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं पुनरेकविधमेकविधेन ६, एवं स्थूलादत्तादानमैथुनपरिग्रहेष्वपि प्रत्येकं षट् षड्भङ्गाः, सर्वेऽपि मिलिताश्चतुर्विंशतिः, एते च द्विविधत्रिविधलक्षणं प्राणातिपातप्रथमभङ्गममुञ्चता लब्धाः, | एवं द्वितीयतृतीयचतुर्थपञ्चमषष्ठेष्वपि प्राणातिपातभङ्गेषु चतुर्विंशतिश्चतुर्विशतिर्भङ्गा भवन्ति, एते सर्वेऽपि चतुश्चत्वारिंशदुत्तरं शतं, तथा स्थूलमृषावादं प्रत्याख्याति द्विविधं त्रिविधेन स्थूलादत्तादानमपि द्विविधं त्रिविधेन, स्थूलमृषावादं द्विविधं त्रिविधेन स्थूलादत्तादानं तु द्विविधं द्विविधेन, एवं पूर्वक्रमेण षड्भङ्गा ज्ञेयाः, एवं मैथुनपरग्रहेष्वपि प्रत्येकं पट् षड्भङ्गाः, सर्वेऽप्यष्टादश, एते च मृषावादप्रथमभङ्गममुञ्चता लब्धाः, एवं द्वितीयादिष्वप्यष्टादश २ भवन्ति, मिलिताश्चाष्टोत्तरं शतं, तथा स्थूलादत्तादानं स्थूलमैथुनं च प्रत्याख्याति द्विविधं त्रिविधेन, स्थूलादत्तादानं द्विविधं त्रिविधेन स्थूलमैथुनं तु द्विविधं द्विविधेन, एवं पूर्वक्रमेण षड् भङ्गा ज्ञेयाः, एवं मैथुनपरिग्रहेष्वपि षड् भङ्गाः, सर्वेऽपि द्वादश, एते च स्थूलादत्तादानप्रथमभङ्गकममुञ्चता लब्धाः, एवं द्वितीयादिष्वपि द्वादश द्वादश भवन्ति, मिलिताश्च द्वासप्ततिः, तथा स्थूलमैथुनं स्थूलपरिग्रहं च प्रत्याख्याति द्विविधं त्रिविधेन स्थूलमैथुनं द्विविधं त्रिविधेन स्थूलपरिग्रहं तु द्विविधं द्विविधेन,
एवं पूर्वक्रमेण षड् भङ्गाः, एते च स्थूलमैथुनप्रथमभङ्गकममुञ्चता लब्धाः, एवं द्वितीयादिष्वपि प्रत्येकं षट् षड्भवन्ति, मिलिताश्च षट्लात्रिंशत् , एते च मूलादारभ्य सर्वेऽपि चतुश्चत्वारिंशं शतं अष्टोत्तरं शतं द्वासप्ततिः षट्त्रिंशच मिलितास्त्रीणि शतानि षष्ट्यधिकानि भवन्तीति,
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org