________________
क्रमशो द्वादशषट्पष्टिप्रभृतिभिर्द्वादशभिर्गुणकारकराशिमिर्गुणिता आगतराशयो भवन्ति, उक्तं च-"पढमवए छन्भंगा छहि छहि गुणिया य बारसवि ठाणा । संजोगेहि य गुणिया सावयवयभंगया हुंति ॥ १॥" इह च सूत्रकारेणागतराशयो विस्तरभयानोक्ताः, वयं तु विनेयानुग्रहाय गाथाभिरुपदर्शयामः-बाहत्तरि १ छाहत्तरि तेवीसा २ सुन्न दु पण सीयाला ३ । वीसा पनरस चउसहि ४ दु नव पणसीइ पनर छ य ५॥१॥ चोयालसयं दस एकतीस चउ ६ बार ति नव सयरी य । इग दु दु ७ वीसा नव नव चालीसा | एग तेयासी ८॥२॥ वीस इगतीस नव सयरि एग बावीस ९ सोल छस्सत्त । छस्सत्त सुन्न नव नव तिन्नि य १० दसमंमि ठाणंमि ॥ ३ ॥ बाहत्तरि छायाला छप्पन्न तिपन्न ति चउ ११ छत्तीसा । तेवीसा अडहत्तरि छहत्तरि एकवीसा य १२ ॥ ४ ॥ गाथाचतुष्टयस्याप्यर्थः प्राग्वदवसेयः, तदेवमुक्ता गुण्यगुणकारकागतराशित्रयप्रदर्शनेन द्वादशी देवकुलिका, एतदनुसारेणाप्रोक्ता अन्या अप्येकादश देवकुलिकाः स्वयमभ्युह्याः, यथा च षड्नझ्या द्वादश देवकुलिकाः एवमेकविंशतिनवैकोनपञ्चाशत्सप्तचत्वारिंशशतभङ्गपक्षेऽप्यनया दिशा प्रत्येकं द्वादश द्वादश देवकुलिकाः समवसेयाः, सर्वसंख्यया च षष्टिदेवकुलिका भवन्तीति, सर्वासामप्यासां देवकुलिकानां स्थापना
बहुश्रुतसूरिसूत्रितेभ्यः पटेभ्यः प्रतिपत्तव्याः, भावार्थस्तु पुरस्ताद्व्यक्तीकरिष्यते ॥ ३८ ॥ ३९ ॥४०॥४१॥ अथ 'दुविहं तिविहा४|| इणऽट्ठहा होंति'त्ति यत्पूर्वमुक्तं तद्विवृण्वन्नाह–'दुविहे'त्यादिगाथाद्वयं, एतच्च प्रागेव व्याख्यातं ॥ ४२ ॥ ४३ ॥ इदानीमष्टोत्तरशताधि-15
कषोडशसहस्रसंख्यान् श्रावकभेदानमिधित्सुः पञ्चाणुव्रतदेवकुलिकाप्रतिपादनाय प्रथममेकादिसंयोगपरिमाणप्रदर्शनपरान् गुणकारकराशीनाह-'पंचण्ह' मित्यादि, पञ्चानामणुव्रतानामेककद्विकत्रिकचतुष्कपञ्चकैश्चिन्त्यमानानां यथासंख्येन पञ्च दश दश पञ्चैकश्वेत्येवं । संयोगा ज्ञातव्याः, अयमर्थः-पञ्चानामणुव्रतानामेककसंयोगाः पञ्च द्विकसंयोगा दश त्रिकसंयोगा अपि दश चतुष्कसंयोगाः पञ्च
ALSANSARSONACHAR
Jan Education International
For Private
Personel Use Only
www.jainelibrary.org