________________
शकसंयोगः पुनरेक एवेति ॥ ३४ ॥ अथवा प्रकारान्तरेण संयोगसयापरिज्ञानोपायमाह - ' अहवे' त्यादि, अथवा पदानि - विवक्षितव्रतलक्षणानि पट्टिकादौ स्थापयित्वा अक्षान् गृहीत्वा क्रमेण चारणां कुर्यात्, तत एकद्विकादिसंयोगविषये भङ्गाः समुत्पद्यन्ते, तेषां सङ्ख्या कर्तव्या, इह च यद्यपि द्वादशी देवकुलिका वक्तुमुपक्रान्ता तथापि लाघवार्थ पञ्चाणुत्रतान्येवाश्रित्य भावनाऽभिधीयते, तत्र पञ्चानां पदानामेकसंयोगे एकैकचारणया पञ्च भङ्गाः, द्विकसंयोगे दश, ते चैवं - प्रथमद्वितीयप्रथमतृतीयप्रथमचतुर्थप्रथमपञ्चमचारणया चत्वारः, द्वितीयतृतीयद्वितीयचतुर्थद्वितीयपञ्चमचारणया त्रयः तृतीयचतुर्थतृतीयपञ्च मचारणया द्वौ चतुर्थपञ्च मचारणया त्वेकः सर्वे दश, तथा त्रिकयोगेऽपि दश, ते चैवं प्रथमद्वितीयतृतीय- प्रथमद्वितीयचतुर्थ- प्रथमद्वितीयपञ्चम- प्रथमतृतीयचतुर्थ - प्रथमतृतीयपश्चम- प्रथमचतुर्थपञ्च मचारणया पटू, द्वितीयतृतीयचतुर्थ-द्वितीयतृतीयपञ्चम-द्वितीयचतुर्थपञ्च मचारणया त्रयः, तृतीयचतुर्थपश्चमचारणया त्वेकः सर्वे दश, चतुःसंयोगे पश्च ते चैवं प्रथमद्वितीयतृतीयचतुर्थचारणया एकः प्रथमद्वितीयतृतीयपश्चमचारणया द्वितीयः प्रथमद्वितीयचतुर्थपश्च मचारणया तृतीयः प्रथमतृतीयचतुर्थपश्च मचारणया चतुर्थः द्वितीयतृतीयचतुर्थपञ्चमचारणया तु पञ्चमः, पञ्चकयोगे पुनश्चारणाया असंभवादेक एव भङ्ग इति ॥ ३५ ॥ एवं सर्वत्रापि चारणा करणीया, अथ सूत्रकारः साक्षादेव द्वादश्या देवकुलिकायाः क्रमेण गुणकारकराशीनाह - 'बारसे' त्यादि गाथाद्वयं द्वादश षट्षष्टिविंशत्यधिके द्वे शते 'पंच नव चउरोति पञ्च नव चत्वारश्च गणितव्यवस्थावशतो व्युत्क्रमेण स्थाप्यन्ते, ततो भवन्ति पञ्चनवत्युत्तराणि चत्वारि शतानि, एवमग्रेऽपि, 'दो नव सत्त य'त्ति द्विनवत्यधिकानि सप्त शतानि, 'चउ दोन्नि नव य'त्ति चतुर्विंशत्युत्तराणि नव शतानि, 'दो नव य सत्तेव'त्ति द्विनवत्यधिकानि सप्त शतानि, 'पण नव चउरो' त्ति पञ्चनवत्युत्तराणि चत्वारि शतानि विंशत्युत्तरे द्वे शते पट्षष्टिर्द्वादश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org