SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ वेलायामागतं ११०४४३६०७७१९६११५३३३५६९५७६९५, उक्तं च-- "सीयालं भङ्गसयं वयवुड्डड्डयालसथगुणं काउं । सीयालसएण जुयं सव्वग्गं जाण भङ्गाणं ॥ १ ॥ " [ सप्तचत्वारिंशं भङ्गशतं व्रतवृद्धाष्टचत्वारिंशच्छतगुणं कृत्वा । सप्तचत्वारिंशच्छतेन युतं सर्वामं जानीहि भङ्गानां ॥ १ ॥ ] तदेवं प्रतिपादिताः पञ्चापि खण्डदेवकुलिकाः । साम्प्रतं संपूर्णदेवकुलिकानामवसरः, तत्र च प्रतित्र - तमेकैकदेवकुलिका सद्भावेन षङ्ग्यादिषु प्रत्येकं द्वादश द्वादश देवकुलिकाः प्रादुर्भवन्ति ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ तासु च सर्वास्वप्युच्यमानासु महान् प्रन्थविस्तरो भवतीत्यतो दिग्मात्रप्रदर्शनाय षङ्ग्यामेव द्वादशीं देवकुलिकामभिधित्सुरेककद्विकादिसंयोगसूचकगुणकारकराशिसमानयनोपायमाह - 'एगाई'त्यादि, 'एगाई एगुत्तर'ति यावत्प्रमाणानां पदानामेककद्विकादिसंयोगाः समानेतुमिष्यन्ते तावत्प्रमाणा एव एकादय एकोत्तरया वृद्ध्या उपर्युपरि क्रमेण स्थाप्यन्ते, इह च द्वादशानां व्रतानां संयोगाः समानेतव्याः तत एकादयो द्वादश यावत्र्यसनीयाः, स्थापना तत: 'पत्तेयपयंमि'त्ति प्रत्येकं एकैकस्मिन् पदे 'उवरि 'त्ति प्रक्षेपाङ्कोपरिस्थिते कार्य:, अधस्तनाङ्कस्तु तथैव ध्रियते, कथं प्रक्षेपः कार्यः ? इत्याह- 'एक्केकहाणि' त्ति एकैकस्योपरितनाङ्कस्य हानि: - वर्जनं यथा भवति तथा, क्षेपे २ उपरितनोऽङ्कोऽधस्तनाङ्कक्षेपरहितः कार्य इति भावः, 'अव साणसंख्या हुंति संयोग'त्ति अवसानक्रमेण सर्वाङ्कप्रक्षेपपरिसमाप्तिरूपे ये अङ्काः क्रमशस्तत्सङ्ख्याः- तत्प्रमाणाः संयोगा - एकद्विश्यादिपदमीलनरूपा भवन्ति, इयमन्त्र भावना - प्रथममेकादिद्वादशान्ता ऊर्द्धायता पङ्किः स्थाप्या, तत एकको द्विके क्षिप्यते जातास्त्रयः, ते च त्रिषु क्षिप्यन्ते जाताः षट्, ते च चतुष्के क्षिप्यन्ते जाता दश, ते च पञ्चके क्षिप्यन्ते जाता पञ्चदश, ते च षट्के जाता एकविंशतिः, सा च सप्तके जाता अष्टाविंशतिः सा चाष्टके जाता षट् ·|- |~|~|~|~|| 'पक्खेवो'ति अधस्तनाङ्कस्य प्रक्षेपः Jain Education International 191 For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy