SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ २३६ प्रव० सा-1 रोद्धारे तत्त्वज्ञानवि० ॥३९३॥ त्रिविधादयः षड्भङ्गाः सूत्रे-आवश्यकनियुक्त्यादौ श्रावकाणां निर्दिष्टा:-कथितास्त एव पनगाः सप्तगुणा:-सप्तमिस्ताडिताः षड्युताश्च क्रमेण सर्वभङ्गकसङ्ख्याराशिं जनयन्तीति शेषः, कथं पुनः षड्नङ्गाः सप्तभिर्गुण्यन्ते ? इत्याह-पदवृद्ध्या-मृषावादाचेकैकवतवृद्धया, श्रावकवतयावन्ति व्रतानि विवक्ष्यन्ते तावतीर्वारा गुण्यन्ते इति तात्पर्य, स्थूलं च न्यायमाश्रित्यैवमुच्यते यावता एकत्रतभङ्गकराशेरवधौ व्यव भङ्गा स्थापितत्वाद्विवक्षितव्रतेभ्य एकेन हीना वारा गुण्यन्ते इति, इयमत्र भावना-एकवते तावत् षड्नङ्गाः, ते च सप्तमिर्गुणिता जाता द्विच-12 त्वारिंशत् तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशत् एषाऽपि सप्तभिर्गुण्यते षट् च क्षिप्यन्ते जातं ३४२ अत्रापि सप्तमिर्गुणिते षट्सु प्रक्षितेषु जातं २४०० पुनः सप्तमिर्गुणिते षट्यक्षेपे च जातं १६८०६, एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावद्गन्तव्यं यावदेकादश्यां वेलायामागतं १३८४१२८७२०२, एते चाष्टचत्वारिंशदादयो द्वादशाप्यागतराशय उपर्यधोभावेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिकामास्तृण्वन्तीति खण्डदेवकुलिकेत्युच्यते, तदेवमुक्ता षङ्गङ्गीप्रतिबद्धा खण्डदेवकुलिका ॥ एकविंशतिभङ्ग्यादिखण्डदेवकुलिका अप्येवमेव भावनीयाः, केवलमेकविंशतिभङ्गीपक्षे एकविंशतिरवधौ व्यवस्थाप्य वारंवार द्वाविंशत्या गुण्यन्ते एकविंशतिस्तु प्रक्षिप्यते | यावदेकादशवेलायां द्वादशवतभङ्गसर्वसङ्ख्यायामागतं १२८५५००२६३१०४९२१५ । नवभङ्गीपक्षेऽप्येवं, नवरमवधौ नव, ते च वारंवारं दशभिर्गुण्यन्ते नव च प्रक्षिप्यन्ते यावदेकादश्यां वारायां सर्वव्रतभङ्गसर्वसङ्यायामागतं ९९९९९९९९९९९९ । एकोनप|श्चाशद्भङ्गीपक्षे पुनरवधावेकोनपञ्चाशत् , सा च वारंवारं पञ्चाशता गुण्यते एकोनपञ्चाशच प्रक्षिप्यन्ते यावदेकादश्यां वारायां सर्वव्रतभङ्गकसङ्ख्यायामागतं २४४१४०६२४९९९९९९९९९९९९ । अक्षरार्थस्तु सुगम एवेति, तथा सप्तचत्वारिंशच्छतभङ्गपक्षेऽप्येवं, III३९३॥ नवरं तत्र सप्तचत्वारिंशच्छतमवधी व्यवस्थाप्यते, वारंवारमष्टचत्वारिंशच्छतेन गुण्यते, सप्तचत्वारिंशच्छतं च प्रक्षिप्यते यावदेकादश्यां| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy