SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ | मि"त्ति ॥ २६ ॥ साम्प्रतं पञ्चत्रिंशदुत्तरसप्तशतसयान् श्रावकभेदानाह-पंचे'त्यादि, इह नवरिशब्द आनन्तर्यार्थः, 'आनन्तर्ये जाणवरीति प्राकृतलक्षणवचनात् , आनन्तर्य च पूर्वोक्तापेक्षया, ततोऽयमर्थः-एतदेव सप्तचत्वारिंशं शतं पञ्चस्वप्यणुव्रतेषु प्रत्येकं सप्तच त्वारिंशदधिकस्य भङ्गशतस्य भावात्पञ्चभिरणुव्रतैर्गुणितं सप्त शतानि पञ्चत्रिंशदधिकानि जानीहि-बुध्यस्व श्रावकव्रतग्रहणकाले-श्रावकाणां पञ्चाणुव्रतप्रतिपत्तिप्रस्तावे इति ॥ २७ ॥ एते च भङ्गा यस्यार्थतोऽवगताः स एव प्रत्याख्यानप्रवीण इति दर्शयन्नाह-'सीया-18 ल'मित्यादि, विशुद्धिर्नाम जीवस्य विशुद्धिकारित्वात्प्रत्याख्यानमुच्यते तद्विषयं 'सीयालं'ति सप्तचत्वारिंशदुत्तरभङ्गानां-ग्रहणप्रकाररू|पाणां शतं यस्योपलब्ध-अर्थतः सम्यक्परिज्ञातं भवति स खलु-स एव प्रत्याख्याने-नियमविशेषप्रतिपत्तिरूपे कुशलो-निष्णातः, शेषा-एतद्व्यतिरिक्ताः पुनरकुशला-अनभिज्ञाः । इह च यद्यप्यनन्तरं पश्चत्रिंशदुत्तराणि सप्त शतान्यभिहितानि तथापि सप्तचत्वारिंश|च्छतमूलत्वात्तेषां मुख्यतया सूत्रे सप्तचत्वारिंशच्छतमेवमुक्तमिति ॥ २८॥ अथ षड्भझ्या एवोत्तरभङ्गरूपामेकविंशतिभङ्गीमाह'दविहे'त्यादि, इयं च प्राग्व्याख्यातैव, इह च द्विविधत्रिविधादिना पूर्वभणितेन भङ्गकनिकुरम्बेन श्रावकाहपश्चाणुव्रतादिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः, ताश्च एकैकव्रतं प्रत्य भिहितया षङ्गङ्ग्या तथा एकविंशतिभङ्गया तथा नवभङ्गया तथा एकोनपञ्चाशनझ्या च | निष्पद्यन्ते । अथ देवकुलिका इति कः शब्दार्थः ?, उच्यते, एकादित्रतप्रतिबद्धभङ्गककदम्बकप्रतिपादका अङ्काः पट्टादिषु न्यस्ता देव| कुलिकाकारत्वेन प्रतिभासनादेवकुलिका इति व्यपदिश्यन्ते, सर्वास्वपि च देवकुलिकासु प्रत्येकं त्रयस्त्रयो राशयो भवन्ति, तद्यथा| आदौ गुण्यराशिः मध्ये गुणकारकराशिः अन्ते चागतराशिरिति ॥ २९ ॥ तत्र प्रथमं तावदेतासामेव देवकुलिकानां षड्नङ्ग्यादिक्रमेण विवक्षितत्रतभङ्गकसर्वसङ्ख्यारूपानेवंकारकराशीनाह-एगे'त्यादिगाथाचतुष्कं, एकस्मिन् व्रते-स्थूलप्राणातिपातविरमणादिके ये द्विवि Jan Education Intemanon For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy