SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ | न करोति मनसा वचसा कायेन १ यद्वा न कारयति त्रिभिरपि करणैः २ यद्वा नानुजानीते त्रिभिरपि करणैः ३, एकविधं द्विविधेनेत्यष्टमो भङ्गः, अत्र चोत्तर विकल्पा नव, तथाहि न करोति मनसा वचसा १ यद्वा मनसा कायेन २ यद्वा वचसा कायेन ३ अथवा न कारयति मनसा वचसा ४ यद्वा मनसा कायेन ५ यद्वा वचसा कायेन ६, अथवा नानुजानीते मनसा वचसा ७ यद्वा मनसा कायेन ८ यद्वा वचसा कायेन ९, एकविधं एकविधेनेति नवमो मूलभङ्गः, अत्राप्युत्तरविकल्पा नव, तथाहि-न करोति मनसा १ यद्वा वचसा २ यद्वा कायेन ३ अथवा न कारयति मनसा ४ यद्वा वचसा ५ यद्वा कायेन ६ अथवा नानुजानीते मनसा ७ यद्वा वचसा ८ यद्वा कायेनेति ९ । तदेवं मूलभङ्गा नव उत्तरभङ्गास्तु मीलिताः सर्वसङ्ख्यया एकोनपञ्चाशत् उक्तं च — "तिविहंतिविद्देण पढमो तिविहं दुविहेण बीयओ होइ । तिविहं एगविहेणं दुविद्दं तिविद्देण ति चउत्थो || १ || दुविहदुविण पंचम दुविदेकविण टुओ होइ । एक्कविहं तिविहेणं दुविहेण य सत्तमट्टमओ ॥ २ ॥ एक्कविक्कविद्देणं नवमो पढमंमि एकभङ्गो उ । सेसेसु तिन्नि तिन्नि य तिन्नि य नव नव य तह तिन्नि ॥ ३ ॥ नव नव य होंति कमसो एए सब्वेवि इगुणवन्नासं ॥” स्थापना इति करणकारणानुमतिमनोवाक्कायाः, ननु च वाक्कायाभ्यां तावत्प्रत्यक्षादिप्रमाणत एव करणकारणानुमतयो दृश्यन्ते, मनसस्तु ताः कथं प्रत्येतव्या: ?, अन्तर्व्यापारत्वेन परैरनुपलक्ष्यमाणत्वात्, उच्यते, निर्व्यापारकायवचनो यदा सावद्ययोगकरणादि मनसा विकल्पयति तदा मुख्यतया कायवचनवन्मनस्यपि करणादीनि संभवन्ति, तथाहि - सावद्ययोगमेनमहं करोमीत्येवं यदा मनसा चिन्तयति तदा करणं, यदा तु मनसा चिन्तयति करोत्वेष सावद्यं असावपि चेङ्गितज्ञोऽभिप्रायादेव प्रवर्तते तदा कारणं, यदा पुनः सावद्यव्यापारं विधाय मनसा चिन्तयति - सुष्ठु कृत ३ ३ ३ २ २ २ १ ३ २ १ ३ २ १ ३ १ ३ ३ ३ ९ ९ ३ ९ ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy