SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३९१ ॥ विरतसहितास्तु द्वात्रिंशत् ॥ २३ ॥ एवं तावदावश्यकनिर्युक्तत्यभिप्रायेण कृता भङ्गप्ररूपणा, सांप्रतं पञ्चत्रिंशदुत्तर सप्तशतसम् श्रावकभेदान् प्रतिपिपादयिषुर्भगवत्यभिप्रायेण नवभङ्गीमाह - 'तिन्नी' त्यादि, योगेषु-करणकारणानुमतिरूपेषु त्रयत्रिकाः त्रयो द्विकाः त्रय एककाञ्च भवन्ति क्रमेण स्थाप्या इति शेषः, तदधस्ताच क्रमेण त्रीणि द्वे एकं त्रीणि द्वे एकं त्रीणि द्वे एकं चैव करणानि-मनोवाक्काय लक्षणानि स्थाप्यानि भवन्तीति पद्घटना, भावार्थ: पुनरयं त्रिविधं त्रिविधेनेति प्रथमो भङ्गः कश्चिद् गृही सावधं योगं न करोति न कारयति नान्यं समनुजानीते मनसा वचसा कायेन चेत्येको भङ्ग इति भावः, त्रिविधं द्विविधेनेति द्वितीयो मूलभङ्गः, अत्रोत्तरभङ्गास्त्रयः, तथाहि न करोति न कारयति नानुजानीते मनसा वाचा १ यद्वा मनसा कायेन २ यद्वा वचसा कायेन ३, त्रिविधमेकविधेनेति तृतीयो भङ्गः, अत्राप्युत्तरभङ्गास्त्रयस्तथाहि न करोति न कारयति नानुजानीते मनसा १ यद्वा वचसा २ या कायेन ३, द्विविधं त्रिविधेनेति चतुर्थो भङ्गः, अत्राप्युत्तरभङ्गास्त्रयः, तथाहि न करोति न कारयति मनसा वचसा कायेन १ यद्वा न करोति नानुजानीते त्रिभिरपि करणैः २, यद्वा न कारयति नानुजानीते त्रिभिरपि करणैः ३, द्विविधं द्विविधेनेति पञ्चमो भङ्गः, अत्र चोत्तरभेदा नव, तथाहि न करोति न कारयति मनसा वचसा १ यद्वा मनसा कायेन २ यद्वा वचसा कायेन ३ अथवा न करोति नानुजानीते मनसा वचसा ४ यद्वा मनसा कायेन ५ यद्वा वचसा कायेन ६ अथवा न कारयति नानुजानीते मनसा वचसा ७ यद्वा मनसा कायेन ८ यद्वा वचसा कायेन ९, द्विविधमेकविधेनेति षष्ठो भङ्गः, अत्राप्युत्तरभेदा नव, तथाहि न करोति न कारयति मनसा १ यद्वा वचसा २ यद्वा कायेन ३ अथवा न करोति नानुजानीते मनसा ४ यद्वा वचसा ५ यद्वा कायेन ६ अथवा न कारयति नानुजानीते मनसा ७ यद्वा वचसा ८ यद्वा कायेन ९, एकविधं त्रिविधेनेति सप्तमो भङ्गः, अत्र चोत्तरभङ्गास्त्रयः, तथाहि Jain Education International For Private & Personal Use Only २३६ श्रावकमत भङ्गाः ॥ ३९१ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy