________________
द्विविधत्रिविधादयः षड्नङ्गाः स्थाप्यन्ते, तेषां षण्णां भङ्गानां क्रमेणैते वक्ष्यमाणा भेदा-उत्तरविकल्पा भवन्ति, तथाहि-प्रथममेकः स्थाप्यते, तदनन्तरं क्रमेण द्वौ त्रिको तत एको द्विकः तदनु क्रमेण द्वौ षट्को, इयमत्र भावना-प्रागुक्तायाः षड्नङ्ग्याः प्रथमे भङ्गे एक एव भेदः, द्वितीयभङ्गे उत्तरभेदात्रयः, तृतीयेऽपि त्रयः, चतुर्थे द्वौ, पञ्चमे षट् , षष्ठेऽपि मूलभङ्गे उत्तरभङ्गाः षडियेवं षड्जन्यामुत्तरभङ्गका मिलिता एकविंशतिरिति, स्थापना चेयं PRADDD योगाः । इति करणकारणमनोवाकायैरुत्तरभेदाः, 'उत्तरगुण सत्तमओ'त्ति प्रतिपन्नोत्तरगुणः सप्तमो भेदः, श्राव-३२३२ करणानि काणां हि द्विधा नियमो-मूलगुणविषय उत्तरगुणविषयश्च, तत्र मूलभूता गुणा मूलगुणाः-पञ्चा- 12/३/३/२/६६] भङ्गाः । णुव्रतानि उत्तरभूता गुणा उत्तरगुणा:-त्रीणि अणुव्रतानि चत्वारि च शिक्षाव्रतानि, इह च संपूर्णासंपूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ अट्ठमो होइ'त्ति अविरत:-अविरतसम्यग्दृष्टिरष्टमो भेदः, तदेवमुक्ता अष्टविधाः श्रावकाः । अथ द्वात्रिंशद्विधानाह-'वयमेगेगं' इत्यादि, एकैकं स्थूलप्राणातिपातविरमणादिकं व्रतं पनिर्विधामिः-भेदैर्गुणितं-ताडितं द्विविधत्रिविधादिकया पूर्वोक्तया षड्नग्या गुणितमित्यथेः, प्रतिपन्नोत्तरगुणाविरतसम्यग्दृष्टिलक्षणभेदद्विकमिलितं द्वात्रिंशद्भवन्ति, तथाहि-स्थूलप्राणातिपातविरतिं षड्भङ्गीमध्यात्कश्चिदाद्येन भङ्गेन गृहाति कश्चिद् द्वितीयेन कश्चित् तृतीयेन कश्चिच्चतुर्थेन कश्चित्पञ्चमेन कश्चित् षष्ठेनेति प्राणातिपातविरतेः षड् भङ्गाः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रत्येकं षड् भङ्गा वाच्याः मिलिताश्च त्रिंशत् । आवश्यके पुनरेवं त्रिंशद्भङ्गा:-यथा कश्चित्पञ्चाप्यणुप्रतानि समुदितान्येव गृह्णाति, तत्र च द्विविधत्रिविधादयः षङ्गेदाः, अन्यो व्रतचतुष्टयं गृह्णाति तत्रापि षट् , अपरो व्रतत्रयं तत्रापि लाषट्, भन्यो प्रतद्वयं तत्रापि षट् , अन्यस्त्वेकमेवाणुव्रतं गृह्णाति तत्रापि षडेव भङ्गाः, एवमेते पञ्च षटकाविंशवन्ति, उत्तरगुणा
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org