SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 55 प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥३९॥ २३६ श्रावकव्रतभङ्गाः | संततिपालनाय विलम्बमानः प्रतिमाः प्रतिपद्यते यो वा विशेष स्वयम्भूरमणादिगतं मत्स्यमांसदन्तिदन्तचित्रकचर्मादिकं स्थूल हिंसादि वा कचिवस्थाविशेषेण प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोति इत्यल्पविषयत्वादत्र न विवक्षितमिति, द्विविधं द्विविधेनेति द्वितीयो भङ्गः, अत्र चोत्तरभङ्गास्त्रयः, तत्र द्विविधमिति-स्थूलहिंसादिकं न करोति न कारयति, द्विविधेनेति मनसा वचसा १ यद्वा मनसा कायेनेति २ यद्वा वाचा कायेनेति ३, तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव वाचाऽपि हिंसादिकमअवन्नेव कायेनैव दुश्चेष्टितादिना असंज्ञिकवत्करोति, यदा तु मनसा कायेन न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरनेवानाभोगाद्वाचैव हन्मि घातयामि चेति ब्रूते, यदा तु वाचा कायेन न करोति न कारयति तदा मनसैवामिसन्धिमधिकृत्य करोति कारयति च, अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्ति, एवं शेषविकल्पा अपि भावनीयाः, द्विविधमेकविधेनेति तृतीयः, अत्राप्युत्तरभङ्गात्रयः, द्विविधं करणं कारणं च एकविधेन मनसा १ यद्वा वचसा २ यद्वा कायेन ३, एकविधं त्रिविधेनेति चतुर्थः, अत्र च द्वौ प्रतिभङ्गो, एकविधं करणं मनसा वाचा कायेन च, अथवा एकविधं कारणं मनसा वाचा कायेन, एकविधं द्विविधेनेति पञ्चमः, अत्र चोत्तरभेदाः षट् , एकविधं करणं द्विविधेन मनसा वाचा १ यद्वा मनसा कायेन २ यद्वा वाचा कायेन ३, अथवा एकविधं कारणं द्विविधेन मनसा वाचा ४ यद्वा मनसा कायेन ५ यद्वा वाचा कायेन ६, एकविधमेकविधेनेति षष्ठो मूलभङ्गः, अत्राप्युत्तरभङ्गाः षट् , एकविधं करणं एकविधेन मनसा १ यद्वा बाचा २ यद्वा कायेन ३ अथवा एकविधं कारणं एकविधेन मनसा ४ यद्वा वाचा ५ यद्वा कायेनेति |६, तदेवं मूलभङ्गाः षट्, षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः सर्वसङ्ख्ययैकविंशतिः, तथा च वक्ष्यति-"दुविहति विहा य छच्चिय तेसिं भेया कमेणिमे होति । पढमेको दोन्नि तिया दुगेग दो छच्च इगवीसं ॥१॥" एषाऽपि प्रक्रमादिहेव व्याख्यायते-अनन्तरोक्ता एव . ॥३९ ॥ Jain Education International For Private Personal use only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy