________________
उत्तरगुण अविरयमेलियाण जाणाहि सङ्घग्गं ॥ ४८ ॥ सोलस चेव सहस्सा अट्ठ सया चेव हुंति अहिया । एसो वयपिंडत्थो दंसणमाई उ पडिमाओ ॥ ४९ ॥
व्रतं-नियमविशेषस्तद्विद्यते येषां ते व्रतिनः श्रावका इत्यर्थः, ते द्विधा-वक्ष्यमाणयुक्त्या द्विप्रकाराः, अथवा अष्टविधाः, अथवा द्वात्रिंशद्धे| दाः, अथवा सप्त शतानि पञ्चत्रिंशदधिकानि, अथवा षोडश सहस्रा अष्टौ शतान्यष्टोत्तराणि व्रतिनो भवन्ति । अत्र च व्रतिन इत्युक्ते सामान्येन श्रावका गृह्यन्ते नतु देशविरता एव, अविरतसम्यग्दृष्टीनामपि सम्यक्त्वप्रतिपत्तिलक्षणस्य नियमस्य सद्भावात् ॥ २२ ॥ अथैतानेव भेदान् प्रत्येकं व्याचिख्यासुराद्यं भेदत्रयमाह - 'दुविहे 'त्यादि, द्विविधाः श्रावकाः - विरता अविरताश्च तत्र विरताः - प्रतिपन्नदेशविरतयः अविरता:- अभ्युपेतक्षायिक (कादि) सम्यक्त्वाः सत्य किश्रेणिक कृष्णादय इव, 'दुविहं तिविहाइणट्ठहा होंति'ति द्विविधः - कृतकारितरूपः त्रिवि - धो- मनोवाक्कायभेदेन यत्र स द्विविधत्रिविध एको भङ्गः स आदिर्यस्य द्विविधत्रिविधादेर्भङ्गजालस्य तेन द्विविधत्रिविधादिना भङ्गजालेनाष्टविधाः श्रावका भवन्ति, यद्वक्ष्यति – “दुविहति विद्देण पढमो दुविहं दुविद्देण बीयओ होइ । दुविहं एगविद्देणं एगविहं चेव तिविद्देणं ॥ १ ॥ एगविहं दुविद्देणं एकेक विहेण छट्ठओ होइ । उत्तरगुण सत्तमओ अविरयओ अट्ठमो होइ ॥ २ ॥” अनयोश्च सोपयोगत्वादत्रैव व्याख्या क्रियते इह व्रतं प्रतिपित्सुः कोऽपि किञ्चित्प्रतिपद्यते, श्रावकत्रतप्रतिपत्तेर्वहुभङ्गत्वात्, तत्र द्विविधं कृतकारितभेदं त्रिविधेन मनसा वचसा कायेनेति प्रथमो भङ्गः एवं च भावना - स्थूलहिंसादिकं न करोत्यात्मना न कारयत्यन्येन मनसा वचसा कायेन चेति, अस्य चानुमतिरप्रतिषिद्धा, आपत्यादिपरिग्रहसद्भावात्तै हिंसादिकरणे च तस्यानुमतिप्राप्तेः, अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रत्रजिताप्रव्रजितयोरभेदापत्तेः, यत्पुनर्व्याख्याप्रज्ञयादौ त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणस्तद्विशेषविषयं विज्ञेयं, तथाहि यः किल प्रवित्रजिषुरेव पुत्रादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org