________________
CALCANARA
द्वाभ्यां त्रिभिश्चतुर्भिर्वा वक्ररुत्पत्तिदेशमायाति, तत्रैकवक्रायां द्वौ समयौ, तयोश्च नियमादाहारकः, तथाहि-आद्यसमये पूर्वशरीरमोक्षः तस्मिश्च समये तच्छरीरयोग्याः केचित्पुद्गला जीवयोगालोमाहारतः संबन्धमायान्ति, औदारिकवैक्रियाहारकपुद्गलादानं चाहारः, तत आयसमये आहारका, द्वितीये च समये उत्पत्तिदेशे तद्भवयोग्यशरीरपुद्गलादानादाहारकः, द्विवकायां गतौ त्रयः समयाः, तत्राये अन्त्ये च प्राग्वदाहारको मध्यमे त्वनाहारकः, त्रिवक्रायां चत्वारः समयाः, ते चैवं-त्रसनाड्या बहिरधस्तनभागादूर्द्धमुपरितनभागा-| दधो वा जायमानो जन्तुर्विदिशो दिशि दिशो वा विदिशि यदोत्पद्यते तदैकेन समयेन विदिशो दिशि याति द्वितीयेन त्रसनाडी प्रविशति तृतीयेनोपर्यधो वा याति चतुर्थेन बहिरुत्पद्यते, दिशो विदिशि उत्पादे त्वाद्ये समये चसनाडी प्रविशति द्वितीये उपर्यधो वा याति तृतीये बहिर्गच्छति चतुर्थे विदिश्युत्पद्यते, अत्राद्यन्तयोः प्राग्वदाहारकः मध्यमयो त्वनाहारकः, चतुर्वक्रायां पञ्च समयाः, ते च त्रसनाड्या बहिरेव विदिशो विदिश्युत्पादे प्राग्वद्भावनीयाः, अत्राप्याद्यन्तयोराहारकः त्रिषु वनाहारकः, तथा केवलिनः समुद्घातेऽष्टसामयिके तृतीयचतुर्थपञ्चमरूपान् केवलकार्मणयोगयुतांस्त्रीन समयान् , अयोगिनः शैलेश्यवस्थायां इखपञ्चाक्षरोच्चारणमात्रं, सिद्धास्तु सादिमपर्यवसितं कालमनाहारका इति २३३ ॥ १९ ॥ इदानीं 'सत्त भयहाणाईति चतुस्त्रिंशदुत्तरद्विशततमं द्वारमाह
इह १ परलोया २ऽऽयाणा ३ मकम्ह ४ आजीव ५ मरण ६ मसिलोए ७ । सत्त भयहाणाई
इमाई सिद्धंतभणियाई ॥२०॥ भयं-भयमोहनीयप्रकृतिसमुत्थ आत्मपरिणामः तस्य स्थानानि-आश्रया भयस्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्म-| नुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयं, इहाधिकृतभीतिमतो जन्तोर्जातौ यो लोकस्ततो भयमिति व्युत्पत्तेः, तथा परस्मात्-विजा
NAGAR+CHAR
Jan Education Intematonal
For Private
Personal use only