SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३८७ ॥ योः शरीरमन्याः पञ्चैकैकसामयिकाः । पृथक् पञ्च आन्तर्मुहूर्तिका औदारिके आहारपर्याप्तिरेकसामयिकी ॥ १ ॥ ] अथ देवानां विशेमाह - 'समगंपि हुंति नवरं पंचम छट्ठा य अमराणंति' नवरं केवलं पञ्चमी - भाषापर्याप्तिः षष्ठी च-मनः पर्याप्तिः एते द्वे अपि | पर्याप्ती अमराणां देवानां समकमपि - युगपदपि भवतः, केनाप्यभिप्रायेण व्याख्याप्रज्ञत्यादिषु देवानामनयोः पर्यात्योरेकत्वप्रतिपादनात्, तथा च व्याख्याप्रज्ञप्तिटीका – “पंचविहाए पज्जत्तीए त्ति पर्याप्तिः- आहारशरीरादीनामभिनिर्वृत्तिः, सा चान्यत्र षोढा उक्ता इह तु पश्चधा, भाषामनः पर्यायोर्बहुश्रुतामिमतेन केनापि कारणेन एकत्वविवक्षणादि" ति २३२ ॥ १७ ॥ १८ ॥ इदानी' 'अणाहारया चउरो' त्ति त्रयत्रिंशदुत्तरद्विशततमं द्वारमाह विग्गहगहमावन्ना केवलिणो समोहया अजोगी य। सिद्धा य अणाहारा सेसा आहारगा जीवा ।। १९ ।। विप्रहगतिः - भवात् भवान्तरे विश्रेण्या गमनं तामापन्नाः - प्राप्ताः सर्वेऽपि जीवाः तथा केवलिनः समुद्धताः - कृतसमुद्घाताः तथा अयोगिनः - शैलेश्यवस्थाः तथा सिद्धाः - क्षीणकर्माष्टकाः सर्वेऽप्येते ऽनाहाराः, एतद्व्यतिरिक्ताः शेषाः सर्वेऽप्याहारकाः, इह परभवं गच्छतां जीवानां गतिर्द्विधा - ऋजुगतिर्विग्रहगतिश्व तत्र यदा जीवस्य मरणस्थानादुत्पत्तिस्थानं समश्रेण्यां प्राञ्जलमेव भवति तदा ऋजुगतिः, सा चैकसमया, समश्रेणिव्यवस्थितत्वेनोत्पत्तिदेशस्याद्यसमय एव प्राप्तेः, नियमादाहारकश्चास्यां, हेयग्राह्यशरीरमोक्षग्रहणान्तरालाभावेनाद्दारा व्यवच्छेदात् यदा तु मरणस्थानादुत्पत्तिस्थानं वक्रं भवति तदा विग्रहगतिः, वक्रश्रेण्या अन्तरालरूपेण विप्रद्देणोपलक्षिता गतिर्विग्रहगतिरितिकृत्वा, तत्र विग्रहगत्योत्पन्ना उत्कर्षतस्त्रीन् समयान् यावदनाहारकाः, तथाहि - अस्यां वक्रगतौ स्थितो जन्तुरेकेन Jain Education International For Private & Personal Use Only २३२ अनाहारकाः गा. १३१९ ॥ ३८७ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy