SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 645484 प्याद् द्वित्रिचतुरिन्द्रिया असंज्ञिपञ्चेन्द्रियाश्च लभ्यन्ते, तेषामाद्याः पञ्चैव पर्याप्तयो न तु मनःपर्याप्तिः मनसस्तेष्वभावादिति, संज्ञिप- Bा चेन्द्रियाणां पुनः षडपि पर्याप्तयः प्राप्यन्ते, मनसोऽपि तेषां सद्भावादिति, एतामिश्च स्वस्वयोग्यपर्याप्तिमिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं समाप्य ततोऽन्तर्मुहूर्तेनायुर्बद्धा तदनन्तरमबाधाकालरूपमन्तर्मुहूर्त जीवित्वैव च म्रियन्ते इति ॥ १७॥ अथासां निष्प-P त्तिकालमानमाह-'पढमे'यादि, प्रथमा-आहारपर्याप्तिः समयप्रमाणा, शेषाः-शरीरपर्यात्यादयः पञ्च पर्याप्तयः क्रमेण प्रत्येकमान्तमौहूर्तिक्यः, इदमुक्तं भवति-एताः पर्याप्तयः सर्वा अप्युत्पत्तिप्रथमसमये एव यथावं युगपजन्तुना निष्पादयितुमारभ्यन्ते, क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिः ततः शरीरपर्याप्तिरिन्द्रियपर्याप्तिरित्यादि, आस्वाहारपर्याप्तिश्च प्रथमसमय एव निष्पाद्यते, शेषास्तु | पञ्चापि प्रत्येकमन्तर्मुहूर्तेन कालेन, अथ आहारपर्याप्तिः प्रथमसमय एव निष्पद्यते इति कथमवसीयते ?, उच्यते, इह भगवता भार्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-"आहारपज्जत्तीए अपजत्तए णं भंते ! किं आहारए अणाहारए?, गोयमा! नो आहारए अणाहारए” इति, तत आहारपर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते नोपपातक्षेत्रसमागतोऽपि, उपपातक्षेत्रसमागतस्य प्रथमसमय एवाहारकत्वात् , तत एकसामयिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽपि आहारपर्याप्त्या अपर्याप्तः स्यात्तत एवं व्याकरणसूत्रं पठेत्-'सिय आहारए सिय अणाहारए' यथा शरीरादिषु पर्याप्तिषु 'सिय आहारए सिय अणाहारए' इति, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्महूर्तप्रमाणः, एतच्च सूत्रे यद्यपि सामान्येनोक्तं तथाप्यौदारिकशरीरिणामेव | द्रष्टव्यं, वैक्रियाहारकशरीरिणां त्वाहारेन्द्रियानप्राणभाषामनःपर्याप्तयः पञ्चाप्येकेनैव समयेन समाप्यन्ते, शरीरपर्याप्तिः पुनरन्तर्मुहूर्तेन, उक्तं च-"वेउब्वाहाराणं सरीर अन्नाउ पण इगिगसमया । पिङ पण अंतमुहुत्ता उराल आहार इगसमया ॥१॥" [वैक्रियाहारक % *******%2-% % % Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy