SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० २३२ पर्यातयः गा. १३१७-८ ॥३८६॥ आहार १ सरीरिं २ दिय ३ पज्जत्ती ४ आणपाण ४ भास ५ मणे ६ । चत्तारि पंच छप्पिय एगिदियविगलसन्नीणं ॥१७॥ पढमा समयपमाणा सेसा अंतोमुहुत्तिया य कमा । समगंपि हुँति नवरं पंचम छट्ठा य अमराणं ॥१८॥ पर्याप्ति म आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, सा च पुद्गलोपचयादुपजायते, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन प्रथम ये गृहीताः पुद्गलास्तेषां तथा अन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यः शक्तिविशेष:-आहारादिपुद्गलखलरसादिरूपतापादनहेतुः यथोदरान्तर्गतानां पुद्गल विशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा-आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिः प्राणापानपर्याप्ति षापर्याप्तिर्मनःपर्याप्तिश्च, तत्र यया शक्त्या करणभूतया जन्तुर्बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः, यया रसीभूतमाहारं रसासृग्मांसदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः, यया तु धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णा पञ्चानां वा इन्द्रियाणां प्रायोग्यानि द्रव्याण्युपादाय एकद्विश्यादीन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः, यया पुनरु|च्छासयोग्यवर्गणादलिकमादाय उच्छासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा प्राणापानपर्याप्तिः, यया तु भाषाप्रायोग्यदलिकमा|दाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः, यया पुनर्मनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः, आह-किं सर्वेषामपि जीवानां सर्वा अप्येताः पर्याप्तयः प्राप्यन्ते ?, नेत्याह-'चत्तारी'त्यादि, इह यथासयेन संबन्धः, तद्यथा-आद्याश्चतस्र एवैकेन्द्रियाणां, भाषामनसोस्तेष्वभावात्, विकलशब्देन चात्र मनोविकला गृह्यन्ते, ते च पारिशे ॥३८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy