________________
दण्डाकारत्वेन विस्तारणाद्दण्डं विरचयति, द्वितीये पुनः समये तमेव दण्डं पूर्वापरं दक्षिणोत्तरं वाऽत्मप्रदेशानां प्रसारणात्पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति, तृतीयसमये तमेव कपाटं दक्षिणोत्तरं पूर्वापरं वा दिग्द्वयप्रसारणान्मथिसदृशं मन्थानं लोकान्तप्रा| पिणमारचयति, एवं च लोकस्य प्रायो बहु पूरितं भवति मध्यन्तराणि त्वपूरितानि जीवप्रदेशानामनुश्रेणि गमनात्, चतुर्थ समये तान्यपि मध्यन्तराणि सह लोकनिष्कुटैः पूरयति, तथा च समस्तोऽपि लोकः पूरितो भवति, तदनन्तरं च पञ्चमे समये यथोक्तप्रक्रमात् प्रतिलोम मध्यन्तराणि संहरति, प्रसृतान् जीवप्रदेशान् सकर्मकान् मध्यन्तर्गतान् संकोचयतीत्यर्थः, षष्ठे पुनः समये मन्थानमुपसंहरति, घनतरसंकोचात्, सप्तमे समये कपाटमपि संहरति, दण्डात्मनि संकोचात्, अष्टमे तु समये दण्डमपि संहृत्य स्वशरीरस्थ एव भवति, तदेवमष्टसामयिकः कैवलिकः समुद्घातः, एतेषु चाष्टस्वपि समयेषु केवली प्रभूतान् वेदनीयनामगोत्रकर्मपुद्गलान् शातयति । सम्प्रति समुद्घातगतस्य योगव्यापारश्चिन्त्यते - योगाश्च - मनोवाक्कायाः तत्र समुद्घातगतस्य काययोग एव केवलो व्याप्रियते, न मनोवाग्योगौ, प्रयोजनाभावात्, तत्र प्रथमचरमसमययोरौदारिकाङ्गो भवति, औदारिककायव्यापारप्राधान्यादौदारिकयोगयुक्त एवे- ४ त्यर्थः, सप्तमषष्ठद्वितीयेषु औदारिकमिश्रः, समुद्घातमापन्न औदारिके तस्माच्च बहिः कार्मणवीर्यपरिस्पन्दादौदारिककार्मणमिश्र काययोगयुक्त इत्यर्थः, चतुर्थपथ्यमतृतीयसमयेषु पुनर्बहिरेवौदारिकाद्बहुतरप्रदेशव्यापारसद्भावात् कार्मणशरीरयोगयुक्त एव, तन्मात्रचेष्टनात् अत्रैव हेतुमाह - 'जं होइ अणाहारो सो तंमि तिगेवि समयाणं' ति यद् - यस्मात्कारणात् स तस्मिन् समयत्रिकेऽप्यनाहारको भवति, यश्चानाहारकः स नियमादेव केवलकार्मणशरीरयोगीति २३१ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ इदानीं 'छप्पजत्तीओ'त्ति द्वात्रिंशदुत्तरद्विशततमं द्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org