SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ दहिर्निष्कास्य विष्कम्भवाहल्याभ्यां शरीरप्रमाणं आयामतः सङ्ख्येययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, यत उक्तम्-"वेउब्वियसमुग्घायेणं समोहणइ समोहणित्ता संखेजाई जोयणाई दंड निसिरइ निसिरिता अहाबायरे पुग्गले परिसाडेति' ४, तेजसि विषये भवस्तैजसः, स चासो समुद्घातश्च तैजससमुद्घातः, स च तेजोलेश्याविनिर्गमकालभावी तैजसशरीरनामकर्माश्रयः, तथाहि-तेजोनिसर्गलब्धिमान् क्रुद्धः साध्वादिः सप्ताष्टौ पदानि अवष्वक्य विष्कम्भबाहल्याभ्यां शरीरमानं आयामतस्तु सङ्ख्येययोजनप्रमाणं जीवप्रदेशदण्डं शरीराबहिः प्रक्षिप्य क्रोधविषयीकृतं मनुष्यादि निर्दहति, तत्र च प्रभूतांस्तैजसशरीरनामकर्मपुद्गलान् शातयति ५, आहारकशरीरे प्रारभ्यमाणे समुद्घात आहारकसमुद्घातः, स चाहारकशशारीरनामकर्मविषयः, तथाहि-आहारकशरीरलब्धिमानाहारकशरीरं चिकीर्षुर्विष्कम्भवाहल्याभ्यां देहमान आयामतः सङ्ख्येययोजनप्रमाणे : शरीराबहिः स्वप्रदेशदण्डं निसृज्य यथास्थूलान् प्रभूतानाहारकशरीरनामकर्मपुद्गलान् प्राग्बद्धान शातयतीति ६, एते च षडपि समुद्घाताः ॥ प्रत्येकमान्तर्मुहूर्तिकाः, तथा केवलिन्यन्तर्मुहूर्तभाविपरमपदे भवः कैवलिकः स चासो समुद्घातश्च केवलिकसमुद्घातः, स च सदसद्वेद्यशुभाशुभनामोच्चनीचैर्गोत्रकर्माश्रयः, अमुं च सूत्रकारः स्वयमेव पुरस्तात्प्रपञ्चयिष्यतीति । अथैतानेव समुद्घातान् जीवेषु चिंतयति -'सत्त इमे हुँति मणुयाणं ति सप्ताप्येते पूर्वोक्ताः समुद्घाता मनुष्याणां भवन्ति, मनुष्येषु सर्वभावसंभवात् । 'एगेंदी'त्यादि, एकेन्द्रियाणां-पृथिव्यादीनां कैवलिकाहारकसमुद्घातवर्जिता इमे आद्याः पञ्च समुद्घाता भवन्ति, पश्चापि चैते वैक्रियवर्जिताश्चत्वारः समुद्घाता विकलेन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणां च भवन्ति, इयं च गाथा प्रज्ञापनापंचसंग्रहजीवसमासादिभिः शास्त्रान्तरैः सह विसंवदति, वेष्वेकेन्द्रियादीनां तैजससमुद्घातस्य प्रतिषिद्धत्वात् , तथा च चतुर्विंशतिदण्डकक्रमेण प्रज्ञापनासूत्रं-"नेरइयाणं भंते ! कइ समु १५ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy