________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ३८४ ॥
रिणत इति वेदनाद्यनुभवज्ञानेन सहैकत्वापत्तिर्जीवस्यावगन्तव्या, प्राबल्येन घातः कथमिति चेद्, उच्यते, इह वेदनादिसमुद्घातपरिणतो जन्तुर्बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीति भावः, स च सप्तधा, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातः मारणान्तिकसमुद्घातः वैक्रियसमुद्घातः | तैजससमुद्घातः आहारकसमुद्घातः केवलिसमुद्घातश्चेति, तत्र वेदनया - असद्वेदनोदयजनितया पीडया हेतुभूतया समुद्घातो वेदनासमुद्घातः, स चासतवेदनीय कर्माश्रयः, तथाहि-- वेदनाकरालितो जीवः स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान् शरीराद्वहिरपि विक्षिपति, तैश्च वदनजठरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्रं क्षेत्रममिव्याप्यान्तर्मुहूर्त यावतिष्ठति तस्मिंश्चान्तर्मुहूर्ते प्रभूतासात वेदनीयकर्मपुद्गल परिशाटं करोति, ततः समुद्घातान्निवृत्त्य स्वरूपस्थो भवति १, कपायैः क्रोधादिभिर्हेतुभूतैः समुद्घातः कषायसमुद्घातः, स च कषायाख्यचारित्रमोहनीयकर्माश्रयः, तथाहि - तीव्रकषायोदयाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैः प्रदेशैर्वदनोदरादिरन्धाणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च देहमात्रं क्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतान् कषायकर्मपुद्गलान् परिशातयति २, मरणमेव प्राणिनामन्तकारित्वादन्तो मरणान्तस्तत्र भवो मारणान्तिकः स चासौ समुद्रघातश्च मारणान्तिकसमुद्घातः, स चान्तर्मुहूर्तशेषायुःकर्माश्रयः, तथाहि - कश्चिज्जीवोऽन्तर्मुहूर्तशेषे स्वायुषि वहिः स्वदेशान् विक्षिप्य तैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्य विष्कम्भबाहल्याभ्यां खशरीरप्रमाणमायामतः स्वशरीरातिरेकतो जघन्येनाङ्गुलासङ्ख्येयभागमुत्कर्षतोऽसङ्ख्येयानि योजनान्येकदिशि क्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतान युःकर्मपुद्गलान् परिशातयति ३, वैक्रिये प्रारभ्यमाणे समुद्घातो वैक्रियसमुद्घातः, स च वैक्रियशरीरनामकर्मविषयः, तथाहि - वैक्रियलब्धिमान् जीवो वैक्रियकरणकाले स्वप्रदेशान् शरीरा
Jain Education International
For Private & Personal Use Only
२३०
वैक्रियाव
स्थानं
२३१
समुद्घा - ताः गा. १३११-६
॥ ३८४ ॥
www.jainelibrary.org