________________
अयोगिकेवलिनस्तु जघन्योत्कृष्टतः पूर्वोक्तमेवेति २२९ ।। ७ ।। ८ ।। ८ ।। ९ ।। इदानीं 'निरयतिरिनरसुराणं उक्कोस विजवणाकालो 'ति त्रिंशदुत्तरद्विशततमं द्वारमाह—
अंतमुत्तं नरए हुंति चत्तारि तिरियमणुएसुं । देवेसु अद्धमासो उक्कोस विउवणाकालो ॥ १० ॥ अन्तर्मुहूर्त नरकेषूत्कर्षतो विकुर्वणावस्थानकालः, तिर्यक्षु मनुष्येषु च चत्वार्यन्तर्मुहूर्तानि, देवेषु - भवनपत्यादिषु अर्धमासः - पञ्चदशदि - नान्युत्कृष्टतो विकुर्वणाकाल इति २३० ॥ १० ॥ इदानीं 'सत्त समुग्धाय' त्येकत्रिंशदधिकद्विशततमं द्वारमाह
वेयण १ कसाय २ मरणे ३ वेउब्विय ४ तेयए य ५ आहारे ६ । केवलियसमुग्धाए ७ सत्त इमे हुति मणुयाणं ॥ ११ ॥ एगिंदीणं केवलिआहारगवज्जिया इमे पंच । पंचावि अवेउवा विगलास - नीण चत्तारि ॥ १२ ॥ केवलियसमुग्धाओ पढमे समयंमि विरयए दंड । बीए पुणो कवाडं मंधाणं कुणइ तइयंमि ॥ १३ ॥ लोयं भरइ चउत्थे पंचमए अंतराई संहरइ । छट्ठे पुण मंधाणं हरइ कवाडंपि सत्तमए ॥ १४ ॥ अट्ठमए दंडपि हु उरलंगो पढमचरमसमए । सत्तमछबिइज्जेस होइ ओरालमिस्सेसो ॥ १५ ॥ कम्मणसरीरजोई चउत्थए पंचमे तइज्जे य । जं होइ अणाहारो सो तंमि तिगेऽवि समयाणं ॥ १६ ॥
समित्येकीभावे उत् प्राबल्येन हननं - वेदनीयादिकर्मप्रदेशानां निर्जरणं घातः, एकीभावेन प्राबल्येन घातः समुद्घातः, केन सहैकीभावगमनमिति चेद्, उच्यते, अर्थाद्वेदनादिभिः, तथाहि - यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org