________________
भूतं ज्ञातव्यं ॥ १ ॥ ] अत्र 'सधेसिं' इति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणं शरीरमिति, न खल्वामू- २२८ परलसमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसंक्रान्तौ साधकतमं कारणं, तथाहि — कर्मजेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति, ननु यदि कार्मणवपुः परिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छन्नागच्छन् वा कस्मान्न दृश्यते ?, उच्यते, कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात्, तथा च परतीर्थिकैरत्युक्तम् — “अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन्वा प्रविशन्वा, नाभावोऽनीक्षणादपि ॥ १ ॥” तदेवं चतुर्धा मनो॥ ३८२ ॥ २ योगचतुर्धा वाग्योगः सप्तधा च काययोगः इति पञ्चदश योगाः । ननु तैजसमपि शरीरं विद्यते यद् भुक्ताहारपरिणमनहेतुः यद्वशाच्च | विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः तत्किमिह नोक्तमिति ?, उच्यते, सदा कार्मणेन सहाव्यभिचारितया तस्य तद्ग्रहणेनैव गृहीतत्वादिति २२७ ॥ ५ ॥ इदानीं 'परलोयगई गुणठाणएसु'त्ति अष्टाविंशत्युत्तरद्विशततमं द्वारमाह
मिच्छे सासाणे वा अविरयभावंमि अहिगए अहवा । जंति जिया परलोयं सेसेक्कारसगुणे मोतुं ॥ ६ ॥
मिथ्यात्वे सासादनत्वे वा अथवा अविरतभावे - अविरत सम्यग्दृष्टित्वेऽधिगते- प्राप्ते सति, मिथ्यात्वादिना गृहीतेनेत्यर्थः, परलोकं - भवान्तरं जीवा व्रजन्ति, शेषांस्तु मिश्र देशविरत्यादीनेकादश गुणस्थानकान् मुक्त्वा - इह भव एव सर्वथा परित्यज्य जीवाः परलोकं यान्ति, | इयमत्र भावना - मिध्यात्वेन गृहीतेन भवान्तरगमनं प्रतीतमेव, तस्य च सर्वत्रापि संभवात् एवं सासादनभावेऽपि 'अणुबंधोदयमा उगबन्धं कालं च सासणो कुणइ ।' [ सास्वादनोऽनन्तानुबन्धिबन्धोदयमायुर्बन्धं कालं च करोति ] इति वचनात् तथा गृहीतसम्य
अव० सारोद्धारे
तत्त्वज्ञानवि०
Jain Education International
For Private & Personal Use Only
भवगुणाः गा. १३०६
।। १८२ ॥
www.jainelibrary.org