________________
शक्त्वस्यापि देवादिषूत्पादादविरतसम्यग्दृष्टित्वेऽपि परलोकगमनं, तथा गृहीतमिश्रभावो न भवान्तरं गच्छति, 'न सम्ममिच्छो कुणइ ४. कालं' [न सम्यग्मिध्यादृष्टिः कालं करोति ] इति वचनात् , देशविरत्यादिगुणस्थानकानां तु विरतिसद्भाव एव भावात् , विरतिश्च याव-! जीवितावधिकत्वान्न तेषु परलोकसंभव इति २२८ ॥ ६ ॥ इदानीं 'गुणठाणयकालमाणं'त्येकोनत्रिंशदुत्तरद्विशततमं द्वारमाह
मिच्छत्तमभवाणं अणाइयमणंतयं च विनेयं । भवाणं तु अणाई सपजवसियं च सम्मत्ते ॥७॥ [मीसाखीणसजोगे न मरंतिकारसेसु अ मरंति । तेसुवि तिसु गहिएK परलोअगमोन अढेसु ॥८॥] छावलियं सासाणं समहियतेत्तीससायर चउत्थं । देसूणपुवकोडी पंचमग तेरसं च पुढो
॥८॥ लहुपंचक्खर चरिमं तइयं छहाइ बारसं जाव । इह अह गुणहाणा अंतमुहुत्ता पमाणेणं॥९॥ इह च मिथ्यात्वकालचिन्तायां चतुर्भङ्गी, तद्यथा-अनाद्यनन्तः १ अनादिसान्तः २ साद्यनन्तः ३ सादिसान्तश्च ४, तत्र मिथ्यात्वं-विपरीतरुचिरूपमभव्यानामनाद्यनन्तं च विज्ञेयं, अनादिकालात्तेषु तत्सद्भावात् आगामिकालेऽपि च तदभावासंभवादिति | भावः, भव्यानां पुनर्मिथ्यात्वमनादि सपर्यवसितं, चशब्दस्यानुक्तसमुच्चयार्थत्वात् सादिसपर्यवसितं च विज्ञेयं, सपर्यवसितत्वं च | सम्यक्त्वे-सम्यक्त्वावाप्तौ सत्यां, इदमुक्तं भवति-योऽनादिमिथ्यादृष्टिः सन् भव्यजीवः सम्यक्त्वं लप्स्यते तस्य मिथ्यात्वमनादिसान्त, | अनादिकालात्तेषु तस्य सद्भावात् आगामिकाले तु भव्यत्वान्यथानुपपत्तेरवश्यं सम्यक्त्वावाप्तौ पर्यवसानाच, यस्त्वनादिमिथ्यादृष्टिः | सम्यक्त्वं लब्ध्वा केनापि कारणेन पुनर्मिथ्यात्वं याति तस्य तत्सादि, सम्यक्त्वलाभादनन्तरं तत्प्राप्तेः सादित्वात् , मिथ्यात्वे च जघन्यतोऽन्तर्मुहूर्त उत्कृष्टतस्त्वहदाशातनादिपापबहुलतयाऽपार्धपुद्गलपरावर्त यावत् स्थित्वा यदा पुनरपि सम्यक्त्वं लभते तदा तत्सान्तं,
Jan Education International
For Private
Personel Use Only
www.jainelibrary.org