SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ तत्र उदारं-प्रधान, प्राधान्यं च तीर्थकरगणधरशरीरापेक्षया द्रष्टव्यं, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात् , अथवा उदारं-सातिरेकयोजनशतसहस्रमानत्वाच्छेषशरीरेभ्यो बृहत्प्रमाणं, बृहत्ता चास्य वैक्रियमाश्रित्य भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रिय योजनलक्षमानमपि लभ्यते इति, उदारमेवौदारिकं, तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रिय, तथाहि-तदेकं भूत्वाऽनेकं भवति अनेकं च भूत्वा एकं तथा अणु भूत्वा मद्भवति महद् भूत्वा अणु इत्यादि, तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाहियते- नियंत इत्याहारकं, तथा मिश्रशब्दः प्रत्येकं संबध्यते, औदारिकमिश्र वैक्रियमिश्रमाहारकमिश्रं च, तत्रौदारिकमिकं कार्मणेन, तच्चापर्याप्तावस्थायां केवलिसमुद्घातावस्थायां वा, उत्पत्तिदेशे हि पूर्वभवादनन्तरागतो जीव आद्यसमये कार्मणेनैव केवलेनाहारयति, ततः परमौदारिकस्याप्यारब्धत्वादौदारिकेण कार्मणमिश्रेण यावच्छरीरस्य । निष्पत्तिः, केवलिसमुद्घातावस्थायां तु द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकं प्रतीतमेव, तथा वैक्रियमिश्रं कार्मणेनौदारिकेण | वा, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायामाद्यसमयानन्तरं द्रष्टव्यं, बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यग्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वा औदारिकेण मिश्र, तथा सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं त्यजत औदा| रिकं गृहत आहारकं वा प्रारभमाणस्याहारकमिश्रमौदारिकेण ज्ञेयं, तथा 'कम्मयगं'ति कर्मजकं कर्मणो जातं कर्मजं कर्मात्मकमित्यर्थः | | तदेव कर्मजकं, किमुक्तं भवति ?-कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मज शरीरमिति, अत एव तदन्यत्र कार्मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम्-"कम्मविवागो कम्मणमट्टविहविचित्तकसम्मनिष्फन्नं । सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥ १॥" [कर्मविपाकः कार्मणमष्टविधविचित्रकर्मनिष्पन्नं । सर्वेषां शरीराणां कार-15 AAAAAACAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy