SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ तैजसी पद्मा शुक्ला चेति षट् लेश्याः, भव्यस्तत्प्रतिपक्षत्वेन चाभव्य इति द्वयं, क्षायोपशमिकक्षायिकौपशमिकभेदात् सम्यक्त्वं त्रिधा, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतानि मिश्रसासादनमिथ्यात्वान्यपि गृह्यन्ते एवं षट् , संज्ञी तत्प्रतिपक्षश्चासंज्ञीति द्वयं, आहारकस्तप्रतिपक्षोऽनाहारक इति द्वयं, सर्वमीलने च द्वाषष्टिरिति २२५ ॥३॥ इदानीं 'उवओग बारस'त्ति पड्विंशत्युत्तरद्विशततमं द्वारमाह मइ १ सुय २ ओही ३ मण ४ केवलाणि ५ मइ ६ सुयअन्नाण ७विन्भंगा ८। अचक्खु ९च क्खु १० अवही ११ केवलचउदंसणु १२ वउगा ॥४॥ उपयुज्यते-वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एभिरित्युपयोगा:-बोधरूपा जीवस्य स्वतत्त्वभूता व्यापाराः, ते च द्विधा-साकारा अनाकाराश्च, तत्र आकार:-प्रतिवस्तु प्रतिनियतो ग्रहण नामरूपो विशेषः 'आगारो उ विसेसो' इति वचनात् सह आकारेण वर्तन्ते इति साकाराः, सामान्यविशेषात्मके वस्तुनि विशेषांशप्राहिण इत्यर्थः, तद्विपरीतास्त्वनाकाराः, सामान्यांशमाहिण इत्यर्थः, तत्र मतिश्रुतावधिमनःपर्यायकेवलाख्यानि पञ्च ज्ञानानि, मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि त्रीणि चाज्ञानानि इत्यष्टौ साकाराः, अचक्षुश्चक्षुरवधिकेवलाख्यानि चत्वारि दर्शनान्यनाकाराः, तदेवं मिलिता द्वादश उपयोगाः, तत्र ज्ञानानि दर्शनानि च प्रागेवोक्तानि, तथा मतिश्रुतावविज्ञानान्येव नबः कुत्सार्थत्वान्मिथ्यात्वकलुषिततया यदा कुत्सितानि भवन्ति तदा यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गाव्यपदेशभाजि भवन्ति, 'विभंग'त्ति विपरीतो भङ्ग:-परिच्छित्तिप्रकारो यस्मिन् तद्विभङ्गमिति २२६ ॥ ४॥ इदानीं 'योगा पन्नरस'त्ति सप्तविंशत्युतरं द्विशततमं द्वारमाह Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy