________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ ३८० ॥
यस्यासत्येयगुणया श्रेण्या आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणं, तत्रासौ प्रविष्टोऽयोगिकेवली भवति, अयं च भवस्थः, ततः शैलेशीकरणचरम समयानन्तरं कोशबन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादेरण्डफलमिव भगवानपि कर्मसम्बन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादूर्द्ध गच्छति, स चोद्धुं गच्छन् ऋजुश्रेण्यां यावत्स्वाकाशप्रदेशेषु इहावगाढस्तावत एव प्रदेशानूर्द्धमप्यवगाहमानो विवक्षित समयाच्चान्यत्समयान्तरमस्पृशन् लोकान्ते गच्छति, न परतोऽपि गत्युपष्टम्भक धर्मास्तिकायाभावात्, तत्र च गतः सन् शाश्वतं कालमवतिष्ठते १४।२२४ ॥ २ ॥ इदानीं 'मग्गणचउदसगो'त्ति पश्चविंशत्युत्तरद्विशततमं द्वारमाह-गइ १ इंदिए य २ काये ३ जोए ४ वेए ५ कसाय ६ नाणेसुं ७ । संजम ८ दंसण ९ लेसा १० भव ११ सम्म १२ सन्नि १३ आहारे १४ ॥ ३ ॥
गतिः इन्द्रियाणि कायाः योगाः वेदाः कषायाः ज्ञानानि संयमः दर्शनानि लेश्याः भव्याः सम्यक्त्वं संज्ञी आहारक इति मूलभेदापेक्षया चतुर्दश मार्गणास्थानानि, मार्गणं-जीवादीनां पदार्थानामन्वेषणं मार्गणा तस्याः स्थानानि - आश्रया मार्गणास्थानानि, उत्तरभेदापेक्षया तु द्वाषष्टिः, तथाहि - सुरनर तिर्यभारकगतिभेदाद् गतिश्चतुर्धा, स्पर्शनरसनप्राणचक्षुः श्रोत्रेन्द्रियभेदात् पञ्च इंद्रियाणि, पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात् कायः षोढा, मनोवचनकायाख्या योगास्त्रयः, स्त्रीपुंनपुंसकस्वरूपा वेदास्त्रयः क्रोधमानमायालोभलक्षणाः कषायाश्चत्वारः, मतिश्रुतावधिमनः पर्यायकेवलभेदात् पञ्च ज्ञानानि ज्ञानग्रहणेन चाज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते तच्च त्रिधा -मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात् एवमष्टौ सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्म संपराययथाख्यातभेदात् संयमः पञ्चधा, तत्प्रतिपक्षत्वाश्च देशसंयमोऽसंयमश्च गृह्यते, एवं सप्त चक्षुरचक्षुरवधिकेवलभेदाचत्वारि दर्शनानि, कृष्णा नीला कापोती
Jain Education International
For Private & Personal Use Only
२२५ मा. गणाः गा.
१३०३
॥ ३८० ॥
www.jainelibrary.org