________________
वीतरागच्छास्थः, स चोपशान्तकषायोऽप्यस्तीति तद्व्यवच्छेदार्थ क्षीणकषायग्रहणं, क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्च २ तस्य गुणस्थान
क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं १२। तथा योजनं योगो-व्यापारः, उक्तं च-"कायवाङ्मनःकर्म योगः” (तत्त्व०६-१) सह योगेन ४ वर्तन्ते ये ते सयोगा-मनोवाकायाः ते यस्य विद्यन्ते स सयोगी, तत्र भगवतः काययोगश्चक्रमणनिमेषोन्मेषादिः वाग्यागो देशनादिः मनोयोदगो मनःपर्यायज्ञानिमिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य मनसैव देशना, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनावधिज्ञानेन |
च पश्यन्ति, दृष्ट्वा च ते हि विवक्षितवस्त्वालोचनाऽऽकारार्थानुपपत्त्या अलोकस्वरूपादिकमपि बाह्यमर्थ पृष्टमवगच्छंति, केवलं ज्ञानं दर्शनं च विद्यते यस्य स केवली सयोगी चासौ केवली च सयोगिकेवली तस्य गुणस्थानं सयोगिकेवलिगुणस्थानं १३ । तथा योगः-पूर्वोक्तो विद्यते यस्यासौ योगी न योगी अयोगी स चासौ केवली च अयोगिकेवली तस्य गुणस्थानमयोगिकेवलिगुणस्थानं, अयोगित्वं पुनरेवंइह त्रिविधोऽपि योगः प्रत्येक द्विधा-सूक्ष्मो बादरश्च, तत्र केवलोत्पत्तेरनन्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोनां पूर्वकोटी विहृत्या-1 न्तर्मुहूर्तावशेषायुष्कः सयोगिकेवली शैलेशी प्रतिपित्सुः पूर्व बादरकाययोगेन बादरवाग्योगं निरुणद्धि ततो बादरमनोयोगं ततः सूक्ष्म| काययोगेन बादरकाययोगं, सति तस्मिन् सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात् , ततस्तेनैव सूक्ष्मवाग्योगं ततः सूक्ष्ममनोयोगं ततः सूक्ष्मक्रियम| निवृत्ति शुक्लध्यानं ध्यायन सूक्ष्मकाययोगं स्वात्मनैव निरुणद्धि, अन्यस्यावष्टम्भनीययोगान्तरस्य तदाऽसत्त्वात् , तन्निरोधानन्तरं समुच्छिनक्रियमप्रतिपाति शुकुध्यानं ध्यायन इस्वपञ्चाक्षरोच्चारणमात्रकालं शैलेशीकरणं प्रविष्टो भवति, शीलस्य-योगलेश्याकलङ्कविप्रमुक्तयथाख्यातचारित्रलक्षणस्य य ईशः स शीलेशस्तस्येयं शैलेशी, त्रिभागोनस्वदेहावगाहनायामुदरादिरन्ध्रपूरणवशात् संकोचितवप्रदेशस्य शैलेशस्यात्मनोऽत्यन्तस्थिरावस्थितिरित्यर्थः तस्यां करणं-पूर्वरचितशैलेशीसमयसमानगुणभेणिकस्य वेदनीयनामगोत्राख्यस्याघातिकर्मत्रित
Jan Education International
For Private
Personal Use Only
www.ainelibrary.org