________________
प्रव० सा
रोद्धारे - तत्त्वज्ञा
नवि०
॥३७९॥
टति संसारमनेनेति संपरायः-कषायोदयः बादर:-सूक्ष्मकिट्टीकृतसंपरायापेक्षया स्थूरः संपरायो यस्य स बादरसंपरायः अनिवृत्ति-४२२४ गुणश्वासा बादरसंपरायश्च २ तस्य गुणस्थानमनिवृत्तिबादरसंपरायगुणस्थानं, तस्यां चानिवृत्तिवादरगुणस्थानकाद्धायामान्तमौहूर्तिक्यां प्रथ- स्थानकाान मसमयादारभ्य प्रतिसमयमनन्तगुणविशुद्धं यथोत्तरमध्यवसायस्थानं भवति, यावन्तश्चान्तर्मुहूर्ते समयास्तावन्त्येवाध्यवसायस्थानानि तत्प्र- गा. विष्टानां भवन्ति नाधिकानि, एकसमयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात् , स चानिवृत्तिबादरो द्वेधा-क्षपक उपशमकश्च,* क्षपयति उपशमयति वा कषायाष्टकादिकमितिकृत्वा ९। तथा सूक्ष्मः-किट्टीकृतः संपरायो-लोभकषायोदयरूपो यस्य स सूक्ष्मसंपरायः, स द्विधा-क्षपक उपशमकश्च, क्षपयति उपशमयति वा अनिवृत्तिबादरेण किट्टीकृतं लोभमेकमितिकृत्वा, तस्य गुणस्थानं सूक्ष्मसंपरायगुणस्थानं १० । तथा छादयति ज्ञानादिकं गुणमात्मन इति छद्म-ज्ञानावरणीयादिघातिकर्मोदयः छद्मनि तिष्ठतीति छद्मस्थः, स च सरागोऽपि भवतीति तव्यवच्छेदार्थ वीतरागग्रहणं, वीतो-विगतो रागो-मायालोभकषायोदयरूपः उपलक्षणत्वादस्य द्वेषोऽपि-क्रोध-15 मानोदयरूपो यस्य स वीतरागः स चासौ छद्मस्थश्च वीतरागच्छद्मस्थः, स च क्षीणकषायोऽपि भवति तस्यापि यथोक्तरागापगमात् ततस्तद्व्यवच्छेदार्थमुपशान्तकषायग्रहणं, उपशान्ताः-उपशमिता विद्यमाना एव सन्तः संक्रमणोद्वर्तनापवर्तनादिकरणैर्विपाकोदयप्रदेशोदया-1 योग्यत्वेन व्यवस्थापिताः कषाया येन स उपशान्तकषायः स चासो वीतरागच्छद्मस्थश्च २ तस्य गुणस्थानमुपशान्तकपायवातरा अस्थगुणस्थानं ११ । तथा क्षीणा-अभावमापन्नाः कषाया यस्य स क्षीणकषायः, तत्रान्येष्वपि गुणस्थानकेषु क्षपकणिद्वारोक्तयुक्त्या कापि कियतामपि कषायाणां क्षीणत्वसंभवात् क्षीणकपायव्यपदेशः संभवति ततस्तव्यवस्छेदार्थ वीतरागप्रहर्ण, क्षीणकषायवीतरागत्वं च केवलिनामप्यस्तीति तद्व्यवच्छेदार्थ छद्मस्थग्रहणं, यद्वा छनस्थः सरागोऽपि भवतीति तदपनोदार्थ वीतरागग्रहणं, वीतरागश्वासों छद्मस्थश्च
ARCHASAACARAN
३७९॥
in Educh an intemeia
For Private & Personal Use Only
www.jainelibrary.org