________________
गुणस्थानस्य प्रथमसमयं प्रतिपन्नाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते च तान् सर्वानपेक्ष्य जघन्यादीन्युत्कृष्टान्तान्यसङ्ख्येयलोकाकाशप्रदेशप्रमा-IX णान्यध्यवसायस्थानानि लभ्यन्ते, कचित्कदाचित्केषाश्चित्प्रथमसमयवर्तिनां परस्परमध्यवसायस्थाने नानात्वस्यापि भावात् , तस्य च नानात्वस्यैतावत एव केवलज्ञानेनोपलब्धत्वात् , अत एव चेदमपि न वाच्यं कालत्रयवर्तिनामेतद्गुणस्थानकप्रथमसमयप्रतिपत्तणामानत्यात्परस्परमध्यवसायस्थानानां नानात्वाच्चानन्तान्यध्यवसायस्थानानि प्राप्नुवन्ति, बहूनां प्राय एकाध्यवसायस्थानवर्तित्वात् , ततो द्वितीयसमये तदन्यान्यधिकतराण्यध्यवसायस्थानानि लभ्यन्ते तृतीयसमये तदन्यान्यधिकतराणि चतुर्थसमये तदन्यान्यधिकतराणीत्येवं यावञ्चरमसमयः, एतानि च स्थाप्यमानानि विषमचतुरस्र क्षेत्रमास्तृणन्ति, स्थापना : ननु द्वितीयादिसमयेष्वध्यवसायस्थानानां वृद्धौ किं कारणं?, उच्यते, स्वभावविशेषः, एतद्गुणस्थानकप्रतिपत्तारो हि प्रतिसमयं विशुद्धिप्रकर्षमासादयन्तः खलु स्वभावत एवं बहवो विमिन्नेषु विभिन्नेष्वध्यवसायस्थानेषु वर्तन्त इति, अत्र च प्रथमसमयजघन्याध्यवसायस्थानात् प्रथमसमयोत्कृष्टमध्यवसायस्थानमनन्तगुणविशुद्धं प्रथमसमयोत्कृष्टाचाध्यवसायस्थानाद् द्वितीयसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धं तस्मात्तदुत्कृष्टमनन्तगुणविशुद्धं इत्येवं यावद् द्विचरमसमयोत्कृष्टाध्यवसायस्थानाचरमसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धं तस्मादपि तदुत्कृष्टमनन्तगुणविशुद्धमिति, एकसमयगतानि चामून्यध्यवसायस्थानानि परस्परं षट्थाननिपतितानि, युगपदेतद्गुणस्थानकप्रविष्टानां च परस्परमध्यवसायस्थानस्य व्यावृत्तिलक्षणा निवृत्तिरप्यस्ति, यथोक्तमनन्तरमितिकृत्वा निवृत्तिगुणस्थानकमप्येतदुच्यते ८। तथा युगपद्गुणस्थानकं प्रतिपनानां बहूनामपि जीवानामन्योऽन्यमध्यवसायस्थानस्य व्यावृत्तिः-निवृत्तिः सा नास्ति अस्येत्यनिवृत्तिः, समकालमेतद्गुणस्थानकमासढस्यापरस्य यस्मिन् समये यद्ध्यवसायस्थानमन्योऽपि विवक्षितः पुरुषस्तस्मिन् समये तदेवाध्यवसायस्थानं समनुवर्तते इत्यर्थः, संपरैति-पर्य
RECXIkk
FERS
For Private Personal Use Only
www.jainelibrary.org