________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥३७८॥
शुद्ध्यपकर्षश्च, अप्रमत्तसंयतगुणापेक्षया तु विपर्ययः, एवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरगुणापेक्षया विशुद्ध्यविशुद्धिप्रकर्षापकर्षयोजना लागण द्रष्टव्या ६। तथा न प्रमत्तोऽप्रमत्तो-निद्रादिप्रमादरहितः स चासौ संयतश्चाप्रमत्तसंयतस्तस्य गुणस्थानमप्रमत्तसंयतगुणस्थानं ७ । तथा
स्थानकानि अपूर्वमभिनवमनन्यसदृशमितियावत् करणं-स्थितिघातरसघातगुणश्रेणिगुणसंक्रमस्थितिबन्धानां पञ्चानां पदार्थानां निवर्तनं यस्यासाव- उगा.१३०२ पूर्वकरणः, तथाहि-बृहत्प्रमाणाया ज्ञानावरणादिकर्मस्थितेरपवर्तनाकरणेन खण्डनं-अल्पीकरणं स्थितिघातः, रसस्यापि-कर्मपरमाणुगतस्निग्धलक्षणस्य प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खण्डनं रसघातः, एतौ च द्वावपि पूर्वगुणस्थानकेषु विशुद्धेरल्पत्वादल्पावेव कृतवान् । |अत्र पुनर्विशुद्धेः प्रकृष्टतरत्वाद् बृहत्प्रमाणतयाऽपूर्वाविमौ करोति, तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तर्मुहूर्त यावदुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या यद्विरचनं सा गुणश्रेणिः, स्थापना 1 एतां च | पूर्वगुणस्थानेष्वविशुद्धतरत्वात् कालतो द्राधीयसी दलिकविरचनामाश्रित्याप्रथीयसी च दलिकस्याल्पस्यापवर्तनाद्विरचितवान् , इह तु तामेव विशुद्धत्वादपूर्वा कालतो ह्रस्वतरां दलिकविरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद्विरचयतीति, तथा बध्यमानशुभाशुभप्रकृतिषु अबध्यमानशुभाशुभप्रकृतिदलिकस्य प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विशुद्धिवशान्नयनं गुणसंक्रमः, तमप्यसाविह अपूर्व करोति, तथा स्थितिं च कर्मणामशुद्धत्वात् प्राग्द्राधीयसीं बद्धवान् , इह तु तामपूर्वा पल्योपमासङ्ख्येयभागेन हीनां हीनतरां हीनतमां च विशुद्धिवशानाति, अयं चापूर्वकरणो द्विधा-क्षपक उपशमकश्च, क्षपणोपशमनाहत्वाच्चैवमुच्यते राज्याईकुमारराजवत् , न पुनरसौ क्षपयत्युपशमयति वा किमपि सर्वात्मना कर्म, तस्य गुणस्थानमपूर्वकरणगुणस्थानं, अस्मिंश्च गुणस्थानके कालत्रयवर्तिनो नानाजीवानानित्य प्रतिसमयं यथोत्तरमधिकवृद्ध्या असाहयेयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, तथाहि-येऽस्यान्तर्मुहूर्तप्रमाणस्य
।।३७८॥
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org