________________
| मिथ्यात्वोदयादयं मिथ्यादृष्टिर्भवतीति २ । तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासौ सम्यग्मिथ्यादृष्टिः तस्य गुणस्थानं सम्यग्मिध्याहष्टिगुणस्थानं, इहानन्तरोक्तविधिना लब्धेनौपशमिकसम्यक्त्वेनौषधविशेषकल्पेन मदनकोद्रवस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति, तद्यथा-शुद्धमर्धविशुद्धमविशुद्धं चेति, स्थापना..., तत्र त्रयाणां पुजानां मध्ये यदा अर्धविशुद्धपुल उदेति तदा तदुदयवशाजीवस्यार्धविशुद्धमर्हदभिहिततत्त्वश्रद्धानं भवति, तेन तदासौ सम्यग्मिध्यादृष्टिगुणस्थानमन्तर्मुहूर्तकालं स्पृशति, तत ऊर्द्धमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति ३ । तथा विरमति स्म-सावद्ययोगेभ्यो निवर्तते स्मेति विरतः न विरतोऽविरतः अथवा विरमणं विरतंसावद्ययोगप्रत्याख्यानं नास्य विरतमस्तीत्यविरतः स चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः, इदमुक्तं भवति-यः पूर्ववर्णितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुखोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः क्षीणदर्शनसप्तको वा क्षायिकसम्यग्दृष्टिरविरतप्रत्ययं दुरन्तनरकादिदुःखफलकर्मबन्धं सावद्ययोगविरतिं च परममुनिप्रणीतसिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन्नपि न विरतिमभ्युपगच्छति न च तत्पालनाय | यतते, अप्रत्याख्यानावरणोदयविग्नितत्वात् , ते हि अल्पमपि प्रत्याख्यानमावृण्वन्ति, स इहाविरतसम्यग्दृष्टिरुच्यते ४ । तथा सर्वसावद्ययोगस्य देशे-एकव्रतविषयस्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावद्ययोगान्ते विरतं-विरतिर्यस्यासौ देशविरतिः, सर्वसावद्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानावरणकषायोदयात् , सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा उच्यन्ते इति, देशविरतस्य गुणस्थानं देशविरतगुणस्थानं ५ । तथा संयच्छति स्म-सर्वसावद्ययोगेभ्यः सम्यगुपरमति स्मेति संयतः प्रमाद्यति स्म-मोहनीयादिकर्मोदयप्रभावतः संज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदति स्मेति प्रमत्तः स चासौ संयतश्च प्रमत्तसंयतः तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानं-विशुद्ध्यविशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तथाहि-देशविरतगुणापेक्षया एतद्गुणानां विशुद्धिप्रकर्षोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org