________________
___
रोद्धारे
प्रव० सा-18|| ग्रन्थिभेदं कर्तुमसमर्थाः पुनरपि व्यावृत्त्य संक्लेशवशादुत्कृष्टस्थितीनि कर्माणि कुर्वन्ति, कश्चित्पुनर्महात्मा समासन्नपरमनिर्वृतिसुखः||२२४ गुण
समुल्लसितप्रभूतदुर्निर्वार्यवीर्यप्रसरो निसिताकुण्ठकुठारधारयेवापूर्वकरणरूपया परमविशुद्ध्या यथोक्तस्वरूपस्य अन्र्भेदं विधाय मिथ्या- स्थानकानि तत्त्वज्ञा- त्वमोहनीयकर्मस्थितेरन्तर्मुहूर्तमुदयक्षणादुपरि गत्वा अनिवृत्तिकरणसंज्ञितेनान्तर्मुहूर्तकालमानं तत्प्रदेशवेद्यदलिकामावरूपमन्तरकरणं *गा.१३०२
नवि० करोति, अत्र च यथाप्रवृत्तापूर्वानिवृत्तिकरणानामयं क्रमो, यथा-"जा गंठी ता पढमं गठिं समइच्छओ भवे बीयं । अनियट्टीकरणं ॥३७७॥
पुण सम्मत्तपुरक्खडे जीवे ॥ १॥" [यावत् प्रन्थिस्तावद् प्रथमं प्रन्थि समतिकामतो भवेद् द्वितीयं । अनिर्वृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥ १॥] 'गंठिं समइच्छओ'त्ति ग्रन्थि समतिकामतो मिन्दानस्येतियावत् , 'सम्मत्तपुरक्खडे'त्ति सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन् , आसन्नसम्यक्त्वे जीवे अनिवृत्तिकरणं भवतीत्यर्थः । एतस्मिंश्चान्तरकरणे कृते तस्य कर्मणः स्थितिद्वयं भवति, अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तमाना, तस्मादेव चान्तरकरणादुपरितनी द्वितीया, स्थापना चेयं : , तत्र प्रथमस्थिती मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकं सम्यक्त्वमवाप्नोति, | मिथ्यात्वदलिकवेदनाऽभावात् , यथा हि वनवानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनवनवोऽप्यन्तरकरणमवाप्य विध्यायति, तथा च सति तस्यौपशमिकसम्यक्त्वलाभः, तस्यां चान्तमाँहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्येन समयशेषायां उत्कृष्टतः पडावलिकाशेषायां कस्यचिन्महाविभीषिकोत्थानकल्पस्तथाविधं किंचिनिमित्तमाश्रित्यानन्तानुबन्ध्युदयो भवति, तदुदये चासौ सासादनसग्दृष्टिगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित्सासादनत्वं यातीति कार्मग्रन्थिमतं, सिद्धान्तमते ॥३७७॥ तु श्रेण्याः समाप्तौ प्रतिपतितः प्रमत्तगुणस्थानेऽप्रमत्तगुणस्थाने वा-तिष्ठते, कालगतस्तु देवेष्वविरतो भवतीति, सासादनोत्तरकालं चावश्यं
Jan Education Intemanong
For Private
Personel Use Only
www.jainelorary.org