________________
आहारो न कयावि दिहो नावि सुओ, एवं सम्मामिच्छादिहिस्सवि जीवाइपयत्थाणं उवरि न य रुई नावि निंद"त्ति, यदा पुनरेकस्मिन्नपि वस्तुनि पर्याये वा एकान्ततो विप्रतिपत्तिं प्रतिपद्यते तदा मिथ्यादृष्टिरेवेत्यदोषः १ । तथा आयं-औपशमिकसम्यक्त्वलाभलक्षणं
सादयति-अपनयतीति नैरुक्ते यशब्दलोपे आसादनं-अनन्तानुबंधिकषायवेदनं, सति ह्यस्मिन् परमानन्दसुखफलदो निःश्रेयसतरुबीजशाभूत औपशमिकसम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कृष्टतः षड्भिरावलिकाभिरपगच्छतीति, सह आसादनेन वर्तत इति सासादनः | सम्यग्-अविपर्यस्ता दृष्टिः-जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः सासादनश्चासौ सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिः तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानं, अथवा सह आसातनया-अनन्तानुबन्ध्युदयलक्षणया वर्तत इति सासातनः स चासौ सम्यग्दृष्टिश्च २ तस्य गुणस्थानं सासातनसम्यग्दृष्टिगुणस्थानं, सास्वादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः, तत्र सह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः, यथा हि भुक्तक्षीरान्नविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति तथैषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुद्वमन् तद्रसमाखादयति ततः स चासौ सम्यग्दृष्टिश्च २ तस्य गुणस्थानं, एतचैवं भवति-इहापारसंसारपारावारान्तर्वर्ती जन्तुर्मिथ्यादर्शनमोहनीयादिप्रत्ययमनन्तपुद्गलपरावर्तान् यावदनेकशारीरिकमानसिकदुःखलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गुरुतरगिरिसरित्प्रवाहवाह्यमानोपलघोलनाकल्पेनाध्यवसायविशेषरूपेणानाभोगनिर्वर्तितेन यथाप्रवृत्तिकरणेनाऽऽ| युर्वर्जानि ज्ञानावरणादिकर्माणि सर्वाण्यपि पृथक्पल्योपमसङ्ख्येयभागन्यूनैकसागरोपमकोटीकोटीस्थितिकानि करोति, अत्र चान्तरे कर्कश
कर्मपटलापहस्तितवीर्यविशेषाणामसुमतामतिकठोरतरनिबिडचिरप्ररूढगहनतरुप्रन्थिवद् दुर्भेदः कर्मपरिणामजनितो जीवस्य धनरागद्वेषप|रिणामरूपोऽभिन्नरूपो प्रन्धिर्भवति, इमं च प्रन्थि यावभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति, ततो
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org