SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३७५ ॥ धम्मा १ धम्मा २ssगासा ३ तियतियभेया तहेव अद्धा य १० । खंधा ११ देस १२ पएसा १३ परमाणु ९४ अजीव चउदसहा ॥ १ ॥ इह अजीवा द्विविधाः - रूपिणोऽरूपिणञ्च, रूपमेषामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणं, तद्व्यतिरेकेण तस्यासंभवात्, अथवा रूपं नाम स्पर्शरूपादिसंमूर्च्छनात्मिका मूर्त्तिः तदेषामस्तीति रूपिणः - पुद्गलाः, तेषामेव रूपादिमत्त्वात्, रूपव्यतिरेकिणोऽरूपिणो - धर्मास्तिकायादयः, तत्र रूपिणचतुर्धा अरूपणिश्च दशधा, बहुवक्तव्यत्वाच्च प्रथममरूपिण आह-धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायाः- पूर्वोक्तस्वरूपात्रयोऽपि प्रत्येकं त्रिभेदाः, तद्यथा-धर्मास्तिकायद्रव्यं धर्मास्तिकायदेशाः धर्मास्तिकाय प्रदेशाः, तत्र धर्मास्तिकायद्रव्यरूपं सकलदेशप्रदेशात्मकाविभागधर्मानुगतसमानपरिणामवत् अवयविद्रव्यं धर्मास्तिकायद्रव्यं, तथा तस्यैव धर्मास्तिकायद्रव्यस्य देशा:- बुद्धिपरिकल्पिता द्व्यादिप्रदेशात्मका विभागा धर्मास्तिकायदेशाः, तथा धर्मास्तिकायस्य प्रकृष्टा देशा- निर्विभागा भागा धर्मास्तिकायप्रदेशाः, ते चासयेया लोकाकाशप्रदेशप्रमाणत्वात्तेषां एवमधर्मास्तिकायाकाशास्तिकाययोरपि प्रत्येकं त्रिभेदता वाच्या, नवरमाका| शास्तिकायप्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात्, दशमश्च अद्धाकालः अस्य च वर्तमानसमयरूपस्यैव परमार्थसत्त्वाद्देशकल्प| नाविरहः । तथा स्कन्धा देशाः प्रदेशाः परमाणवचेति चतुर्विधा रूप्यजीवाः, तत्र स्कन्दन्ति - शुष्यन्ति धीयन्ते च - पुष्यन्ति विचनेन संघातेन चेति स्कन्धाः - अनन्तानन्तपरमाणुप्रचयरूपा मांसचक्षुर्ब्राह्याः कुम्भस्तम्भादयः तद्ग्राह्या अचित्तमहास्कन्धादयोऽपि पृषोदरादित्वाच्च रूपनिष्पत्तिः, अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थं, देशाः स्कन्धानामेव स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता द्व्यादिप्रदेशात्मका विभागाः, अन्त्रापि बहुवचनमनन्तप्रादेशिकेषु तथाविधेषु स्कन्धेषु देशानन्तत्वसंभावनार्थ, प्रदेशास्तु स्कन्धानां - स्क Jain Education International For Private & Personal Use Only २२२ जीवभेदाः २२३ अ जीवभेदाः गा. १३००-१ ॥ ३७५ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy