________________
ROCTORSCACROSSOSOR:
न्धत्वपरिणामपरिणतानां बुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागा भागा इत्यर्थः, अत्रापि बहुवचनं प्रदेशानन्तत्वसंभावनार्थ, परमाश्च ते अणवश्व परमाणवो-निर्विभागद्रव्यरूपाः । ननु प्रदेशपरमाण्वोः कः प्रतिविशेषः ?, उभयोरपि निर्विभागरूपत्वात् , उच्यते, स्कन्धप्रतिबद्धा निर्विभागाः प्रदेशाः, ये तु स्कन्धत्वपरिणामरहिता विशकलिता एकाकिन एवास्मिन् लोके वर्तन्ते ते परमाणवः, तदेवमजीवाःजीवव्यतिरिक्ताश्चतुर्दशविधा भवन्ति २२३ ॥ १॥ इदानीं 'गुण चउदसगु'त्ति चतुर्विशत्युत्तरद्विशततमं द्वारमाह
मिच्छे १ सासण २ मिस्से ३ अविरय ४ देसे ५ पमत्त ६ अपमत्ते ७ । नियहि ८ अनियहि ९
सुहमु १. वसम ११ खीण १२ सजोगि १३ अजोगि १४ गुणा ॥२॥ 'सूचनात् सूत्र'मिति न्यायात् 'पदैकदेशेऽपि पदसमुदायोपचाराद्वा' इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः, तद्यथा-मिथ्यादृष्टिगुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानं सम्यग्मिध्यादृष्टिगुणस्थानं अविरतसम्यग्दृष्टिगुणस्थानं देशविरतिगुणस्थानं प्रमत्तसंयतगुणस्थानं अप्रमत्तसंयतगुणस्थानं अपूर्वकरणगुणस्थानं अनिवृत्तिबादरसंपरायगुणस्थानं सूक्ष्मसंपरायगुणस्थानं उपशान्तकषायवीतरागच्छद्मस्थगुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं सयोगिकेवलिगुणस्थानं अयोगिकेवलिगुणस्थानं इत्येतानि चतुर्दश गुणस्थानानि भवन्ति । तत्र मिथ्याविपर्यस्ता दृष्टिः-अर्हत्प्रणीततत्त्वप्रतिपत्तिर्यस्य भक्षितधत्तूरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिथ्यादृष्टिः, गुणा-ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, तिष्ठन्ति गुणा अस्मिन्निति स्थानं-ज्ञानादिगुणानामेव शुद्ध्यशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, गुणानां स्थानं गुणस्थानं, मिथ्यादृष्टेर्गुणस्थानं-सासादनाथपेक्षया ज्ञानादिगुणानां शुद्ध्यपकर्षकृतः स्वरूपभेदो मिथ्यादृष्टिगुणस्थानं । ननु यदि मिथ्यादृष्टि-| रसौ कथं तस्य गुणस्थानसंभवः ?, गुणा हि ज्ञानदर्शनचारित्ररूपाः, तत्कथं ते दृष्टौ ज्ञानादिविपर्यस्तायां भवेयुः ?, उच्यते, इह यद्यपि
For Private Personal Use Only
Jain Education Interational
www.jainelibrary.org