SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ * केवलिलक्षणेषु, तत्र मिथ्यादृष्ट्यादीनां त्रयाणामौदयिकक्षायोपशमिकपारिणामिकलक्षणात्रयः सयोग्ययोगिकेवलिनोस्स्वौदयिकक्षायिकपा-४ | रिणामिकरूपा इति । नन्वमी त्रिप्रभृतयो भावा गुणस्थानकेषु चिन्त्यमानाः किं सर्वजीवाधारतया चिन्त्यन्ते ? आहोश्चियेकजीवाधारतयेत्याह-एगजिए'त्ति एकजीवे-एकजीवाधारतयेत्थं भावचिन्ता मन्तव्या, नानाजीवापेक्षया तु संभविनः सर्वेऽपि भावा भवन्तीति | २२१ ॥ ९९ ।। इदानीं 'जीवचउदसगो'त्ति द्वाविंशत्युत्तरद्विशततमं द्वारमाह इह सुहुमबायरेगिदियबितिचउ असन्नि सन्नि पंचिंदी । पज्जत्तापज्जत्ता कमेण चउदस जियट्ठाणा ** *** ____ इह-जगति प्रवचने वा अनेन क्रमेण चतुर्दश जीवस्थानानि भवन्ति, तिष्ठन्ति जीवास्तत्तत्कर्मपारतण्यादेविति स्थानानि-सूक्ष्मपर्या केन्द्रियत्वादयोऽवान्तरविशेषाः जीवानां स्थानानि जीवस्थानानि, केन क्रमेणेत्याह-सूक्ष्मबादरभेदाद् द्विविधा एकेन्द्रियाः तथा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चासंज्ञिसंज्ञिभेदतो द्विधा मिलिताश्च सप्त, एते च सूक्ष्मैकेन्द्रियादयः प्रत्येकं द्विविधाः-पर्याप्ता अपर्याप्ताश्चेति, तथा विशेषश्चात्र-अपर्याप्तका द्विधा-लब्ध्या करणेन च, तत्र ये अपर्याप्तका एव सन्तो नियन्ते न पुनः स्वयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः स्वयोग्यकरणानि-शरीरेन्द्रियादीनि न तावत् निर्वर्तयन्ति अथ चावश्यं पुरस्ताभिर्वर्तयिष्यन्ति ते करणापर्याप्तकाः, इह चैवमागमः-लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते | नार्वाक् , यस्मादागामिकभवायुर्बद्धा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्त्या पर्याप्तानामेव बध्यत इति २२२ ॥ १३०० ॥ इदानीं 'अजीव चउदसगो'त्ति त्रयोविंशत्युत्तरद्विशततमं द्वारमाह * For Private Personal use only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy