SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० गुणस्थानकेषु भावाः गा.१२९९ ॥३७४॥ यिकक्षायोपशमिकौयिकपारिणामिकलक्षणाः पञ्चापि भावाः संभवन्ति, ज्ञानावरणदर्शनावरणान्तरायाणामौपशमिकवर्जाः शेषाश्चत्वारः, नामगोत्रवेदनीयायुषां क्षायिकौदयिकपारिणामिकलक्षणास्त्रय इति ॥ ९८ ॥ अथ गुणस्थानकेषु भावपञ्चकं चिन्तयन्नाह सम्माइच उसु तिग चउ भावा चउ पणुवसामगुवसंते । चउ खीणऽपुष्वे तिन्नि सेसगुणठाणगेग जिए॥१९॥ - 'सम्माई'त्यादि, सम्यग्दृष्ट्यादिषु चतुर्यु-अविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतलक्षणेषु गुणस्थानकेषु त्रयश्चत्वारो वा भावाः | प्राप्यन्त इति शेषः, तत्र क्षायोपशमिकसम्यग्दृष्टेश्चतुर्वपि गुणस्थानकेषु त्रयो भावा लभ्यन्ते, तद्यथा-यथासंभवमौदयिकी गतिः क्षायोपशमिकमिन्द्रियसम्यक्त्वादि पारिणामिकं जीवत्वमिति, क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टश्च चत्वारो भावा लभ्यन्ते, त्रयस्तावत्पूर्वोक्ता एव चतुर्थस्तु क्षायिकसम्यग्दृष्टेः क्षायिकसम्यक्त्वलक्षणः औपशमिकसम्यग्दृष्टेस्त्वौपशमिकसम्यक्त्वलक्षण इति, तथा चत्वारः पञ्च वा भावा द्वयोरप्युपशमकोपशान्तयोर्भवन्ति, किमुक्तं भवति ?-अनिवृत्तिबादरसूक्ष्मसंपरायलक्षणगुणस्थानकद्वयवर्ती जन्तुरुपशमकः उपशान्तमोहगुणस्थानकवर्ती चोपशान्तः, तत्रानिवृत्तिबादरसूक्ष्मसंपराययोश्चत्वारः पूर्ववदेव, उपशान्तमोहे तु चतुर्थ औपशमिकसम्यक्त्वचारित्ररूपः, पञ्चमः पुनस्त्रयाणामपि दर्शनसप्तकक्षये उपशमश्रेणि प्रतिपद्यमानानां, तथाहि-क्षाशिकसम्यक्त्वस्य औपशमिकचारित्रस्य च सद्भावादिति, तथा चत्वारो भावाः क्षीणापूर्वयोः-क्षीणमोहगुणस्थानके अपूर्वकरणगुणस्थामके च, तत्र त्रयः पूर्ववदेव चतुर्थस्तु क्षीणमोहे क्षायिकसम्यक्त्वचारित्ररूपः, अपूर्वकरणे तु क्षायिकसम्यक्त्वरूप औपशमिकसम्यक्त्वरूपो वेति, 'तिन्नि सेसगुणठाणगे'ति त्रयः-त्रिसङ्ख्या भावा भवन्ति, केष्वित्याह-विभक्तेलापात् शेषगुणस्थानकेषु-मिथ्यादृष्टिसासादनसम्यग्मिथ्यादृष्टिसयोगिकेवल्ययोगि ३७४॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy