________________
X
%
प्रणामात्र, काप्यसंभवादिति, तथा पञ्चसु चतुष्कसंयोगेषु मध्ये चतुर्योगयुग-चतुःसंयोगभङ्गद्वयं चतसृष्वपि गतिषु संभवति, तथाहि-
औपशमिकसम्यग्दृष्टेरौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावचतुष्टयनिष्पन्नस्तृतीयो भङ्गः, क्षायिकसम्यग्दृष्टेस्तु औदयिकः क्षायिकः क्षायोपशमिकः पारिणामिक इत्येवंरूपश्चतुर्थो भङ्गश्चतसृष्वपि गतिषु प्राप्यत इति, तथा मनुष्याणां पञ्चकयोगः-पूर्वोक्तभावपञ्चकसंयोगः संभवति, केवलं क्षायिकसम्यग्दृष्टयः सन्तो ये उपशमश्रेणि प्रतिपद्यन्ते तेषामेव न पुनरन्येषां, समुदितभावपञ्चकस्य तेषामेव भावादिति ॥ ९७ ॥ उक्ता जीवानधिकृत्य सर्वेऽपि भावाः, इदानी को भावः कस्मिन् कर्मणि भवतीत्येतन्निरूपयितुमाह'मोहस्सेवे'त्यादि, अष्टानां कर्मणां मध्ये मोहनीयस्यैवोपशमो-विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य विष्कम्भणं नान्येषां, उपशमस्त्विह सर्वोपशमो विवक्षितो न देशोपशमः, तस्य सर्वेषामपि कर्मणां संभवात् , तथा उदयावलिकाप्रविष्टस्यांशस्य क्षयेणानुदयावलिकाप्रविष्टस्योपशमेन-विपाकोदयनिरोधलक्षणेन निवृत्तः क्षायोपशमिकः, स चतुर्णामेव घातिकर्मणां-ज्ञानावरणदर्शनावरणमोहनीयान्तरायरूपाणां भवति न शेषकर्मणां, चतुर्णामपि च केवलज्ञानावरणकेवलदर्शनावरणरहितानां, तयोर्विपाकोदयविष्कम्भाभावतः क्षयोपशमासंभवात् , उदयक्षयपरिणामा अष्टानामपि कर्मणां भवन्ति, तत्र उदयो-विपाकानुभवनं, तस्य सर्वेषामपि संसारिजीवानामष्टानामपि कर्मणां दर्शनात् , क्षयः-आत्यन्तिकोच्छेदः, स च मोहनीयस्य सूक्ष्मसंपरायगुणस्थानकस्य चरमसमये, शेषाणां तु त्रयाणां घातिकर्मणां क्षीणकपायगुणस्थानकस्य, अघातिकर्मणामयोगिकेवलिनः, तथा परिणमनं परिणामः-जीवप्रदेशैः सह संलुलिततया मिश्रीभवनं यद्वा तत्तद्द्रव्यक्षेत्रकालाध्यवसायापेक्षया तथातथासंक्रमादिरूपतया यत्परिणमनं स परिणामः, एष चात्र तात्पर्यार्थ:-मोहनीयस्य औपशमिकक्षा
Jan Education Intemanon
For Private Personel Use Only
www.jainelibrary.org