________________
६३
शमिक इत्येको भङ्गः औदयिक औपशमिकः क्षायिकः पारिणामिक इति द्वितीयः औदयिकः औपशमिकः क्षायोपशमिकः पारिणामिक इति तृतीयः औदयिकः क्षायिकः क्षायोपशमिकः पारिणामिक इति चतुर्थः औपशमिकः क्षायिकः क्षायोपशमिकः पारिणामिक इति पञ्चमः, पर्विंशतितमस्तु भङ्गः पंचकसंयोगे जायमानः सुप्रतीत एव, एते च षड्विंशतिर्भङ्गा भङ्गरचनामात्रमधिकृत्य दर्शिता वेदितव्याः, संभविनः पुनरेतेषु मध्ये परमार्थतः षडेव, तद्यथा - एको द्विकसंयोगे ९ द्वौ त्रिकसंयोगे ५-६ द्वौ चतुष्कसंयोगे ३-४ एकः पञ्चकसंयोगे ॥ ९४ ॥ एते चावान्तरभेदतः पंचदश भवन्त्यतस्तान् सूत्रदाह —- 'ओदई 'यादिगाथाद्वयं, औदयिकक्षायोपशमिकपारिणामिकैर्भावैर्निष्पन्नस्य सान्निपातिकस्य नारकतिर्यग्नरसुरखरूपगतिचतुष्कविषयतया चिन्त्यमानस्य चत्वारो भेदा भवन्ति, इदमुक्तं |भवति-औदयिकः क्षायोपशमिकः पारिणामिक इत्ययं त्रिकसंयोगनिष्पन्नो भङ्गो गतिभेदाचतुर्धा भिद्यते, तद्यथा-निरयगतावौदयिकं नैरयिकत्वं क्षायोपशमिकमिन्द्रियादि पारिणामिकं जीवत्वादि, तिर्यग्गतावौदयिकं तिर्यग्योनित्वं क्षायोपशमिकमिन्द्रियादि पारिणामिकं जीवत्यादि, एवं नरसुरगत्योरपि भावना कार्या, तथा एतैरेवौदयिकादिभिस्त्रिभिः क्षायिकसहितैर्निष्पन्नस्य सान्निपातिकस्य भावस्य चत्वारो भेदा भवन्ति, अयमर्थः - अमीषामेव त्रयाणां भावानां मध्ये यदा क्षायिको भावश्चतुर्थः प्रक्षिप्यते तदा चतुष्कसंयोगो भवति, | एवं चाभिलपनीयः - औयिकः क्षायिकः क्षायोपशमिकः पारिणामिकः, एषोऽपि गतिभेदाच्चतुर्धा, तद्यथा - औदयिकी नरकगतिः | क्षायिकं सम्यक्त्वं क्षायोपशमिकमिन्द्रियादि पारिणामिकं जीवत्वादि, एवं तिर्यग्नरसुरगतिध्वपि भावनीयं प्रकारान्तरेण चतु:संयोगे एव चतुर्भेदानाह - तदभावे - अनन्तरप्रक्षिप्तक्षायिकभावाभावे औपशमिकभावयुक्तैरौदयिकादिभिरेव चत्वारो भेदा भवन्ति एतदुक्तं | भवति - यदा क्षायिकभावस्थाने औपशमिको भावः प्रक्षिप्यते तदापि चतुष्कसंयोगो भवति, एवं चाभिलापः - औदयिक औपशमिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org