________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥३७२॥
गा.
शेषाः ये च वर्षधरपर्वतभवनविमानकूटरत्नप्रभादीनां पुद्गल विचटनचटनसंपाद्या अवस्थाविशेषाः यानि च गंधर्वनगराणि यच्च कपिडसि-ल
२२० पापतमुल्कापातो गर्जितं महिका दिग्दाहो विद्युत् चन्द्रपरिवेषः सूर्यपरिवेषश्चन्द्रसूर्यग्रहणमिन्द्रधनुरित्यादिः सर्वः सादिपारिणामिको भावः,
प्रकृतयः लोकस्थितिरलोकस्थितिधर्मास्तिकायत्वमित्यादिरूपस्त्वनादिपारिणामिक इति । उक्ताः प्रत्येकं भावभेदाः, सम्प्रत्येतेषामेव भेदानां सर्वस-1
गायामाह-'पंचण्हवी'त्यादि, पञ्चानामप्यौपशमिकादीनां भावानां भेदाः समुदिताः सन्त एवमेव-पूर्वोक्तप्रकारेण त्रिपञ्चाशत्सल्या २ ९ भवन्ति, द्विनवाष्टादशैकविंशतित्रयाणां मीलनेनैतत्सङ्ख्यायाः सद्भावादिति । षष्ठस्तु सान्निपातिको भाव एतेषामेव द्वयादि संयोगनिष्पाद्यः,
२२१ तत्र चागमोक्तक्रमेण औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकरूपाणां पञ्चानां पदानां सामान्यतः षड्विंशतिर्भङ्गा उत्पद्यन्ते,
माभावपटूम् तद्यथा-दश द्विकसंयोगे दश त्रिकसंयोगे पञ्च चतुष्कसंयोगे एकः पञ्चकसंयोगे इति, तत्र द्विकसंयोो दश-औदयिक औपशमिक इयेको भङ्गः औदयिकः क्षायिक इति द्वितीयः औदयिकः क्षायोपशमिक इति तृतीयः औदयिकः पारिगामिक इति चतुर्थः औपश- १२९०-९८ मिकः क्षायिक इति पञ्चमः औपशमिकः क्षायोपशमिक इति षष्ठः औपशमिकः पारिणामिक इति सप्तमः क्षायिकः क्षायोपश मिक इत्यष्टमः क्षायिकः पारिणामिक इति नवमः क्षायोपशमिकः पारिणामिक इति दशमः, तथा दश त्रिकसंयोगे-औदयिक औपशमिकः क्षायिक इत्येको भङ्गः औदयिक औपशमिकः क्षायोपशमिक इति द्वितीयः औदयिक औपशमिकः पारिगामिक इति तृतीयः औदयिकः क्षायिकः क्षायोपशमिक इति चतुर्थः औदायिकः क्षायिकः पारिणामिक इति पञ्चमः औदयिकः क्षायोपशमिकः पारिगामिकः इति षष्ठः
औपशमिकः क्षायिकः क्षायोपशमिक इति सप्तमः औपशमिकः क्षायिकः पारिणामिक इत्य टमः औपशमिकः क्षायोपशमिकः पारिणा- ॥३७२॥ |मिक इति नवमः क्षायिकः क्षायोपशमिकः पारिणामिक इति दशमः, तथा चतुष्कसंयो-औदयिक औपशमिकः क्षायिकः क्षायोग
ESSAY
A
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org