________________
यास्त्विह क्षायोपशमिक्य उच्यन्ते ताः क्षयोपशमसंभूताः छद्मस्थानामेवेति, सम्यक्त्वमपि क्षायोपशमिकं दर्शनसप्तकक्षयोपशमे, चारित्रचतुष्कं तु चारित्रमोहनीयक्षयोपशमे, संयमासंयमश्चाप्रत्याख्यानावरणकषायमोहनीयक्षयोपशमे इति ॥ ९२ ॥ सांप्रतमेकविंशतिमौदयिकभावभेदानाह-'चउगई'त्यादि, एते सर्वेऽपि गत्यादयो भावाश्चतुर्थे औदयिके भावे भवन्ति, तथाहि-चतस्रो नरकादिगतयो नरकगत्यादिनामकर्मोदयादेव जीवे प्रादुष्षन्ति, कषाया अपि क्रोधादयश्चत्वारः कषायमोहनीयकर्मोदयात् , लिङ्गत्रिकमपि-स्त्रीवेदादिरूपं स्त्रीवेदपुंवेदनपुंसकवेदमोहनीयकर्मोदयात् , लेश्याषट्कं तु योगपरिणामो लेश्या' इत्याश्रयणेन योगत्रिकजनककर्मोदयात् , येषां तु मते कषायनिस्स्पंदो लेश्यास्तदभिप्रायेण कषायमोहनीयकर्मोदयात् , येषां तु कर्मनिस्स्यंदो लेश्यास्तन्मतेन तु संसारित्वासिद्धत्ववदष्टप्रकारकर्मो
दयादिति, अज्ञानमपि-विपर्यस्तबोधरूपं मत्यज्ञानादिकं ज्ञानावरणमिथ्यात्वमोहनीयोदयात् , यत्तु पूर्वमस्यैव मत्याद्यज्ञानस्य क्षायोपश|| मिकत्वमुक्तं तद्वस्त्ववबोधमात्रापेक्षया, सर्वमपि हि वस्त्ववबोधमात्रं विपर्यस्तमविपर्यस्तं च ज्ञानावरणीयकर्मक्षयोपशम एव भवति, यत्पु-1
नस्तस्यैव विपर्यासलक्षणमज्ञानत्वं तद् ज्ञानावरणमिथ्यात्वमोहनीयकर्मोदय एव संपद्यते, इत्येकस्यैवाज्ञानस्य क्षायोपशमिकत्वमौदयिकत्वं चन विरुध्यते, इत्येवमन्यत्रापि विरोधपरिहारः कर्तव्य इति, मिथ्यात्वं मिथ्यात्वमोहनीयोदयात् , असिद्धत्वं-कर्माष्टकोदयात् , असं|| यमः-अविरतत्वं तदप्यप्रत्याख्यानावरणकषायोदयादुपजायत इति । ननु निद्रापञ्चकासातादिवेदनाहास्यरत्यरतिप्रभृतयः प्रभूततरभावा | अन्येऽपि कर्मोदयजन्याः सन्ति तत् किमित्येतावन्त एवैते निर्दिष्टाः ?, सत्यं, उपलक्षणमात्रत्वादमीषां संभविनोऽन्येऽपि द्रष्टव्या इति
॥ ९३ ॥ अथ पारिणामिकभेदांत्रीनाह-पंचे'त्यादि, पञ्चमके च-पारिणामिकत्वलक्षणे भावे जीवत्वाभव्यत्वभव्यत्वानि वर्तन्ते, जीव| त्वमभव्यत्वं भव्यत्वं चानादिपारिणामिको भाव इत्यर्थः, उपलक्षणं चैतत् , तेन ये गुडघृततण्डुलासवघटादीनां नवपुराणत्वादयोऽवस्थावि
ALS
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org