SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ एक्केको उवसमसेढीसिद्धकेवलिसु एवमविरुद्धा । पन्नरस सन्निवाइयभेया वीसं असंभविणो ॥९६ ॥ दुगजोगो सिद्धाणं केवलिसंसारियाण तियजोगो । चउजोगजुरं चउमुवि गईसु मणुयाण पणजोगो॥९७ ॥ मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । उदयक्खयपरि णामा अट्टण्हवि हुंति कम्माणं ॥९८॥ विशिष्टहेतुभिः स्वभावतो वा जीवानां तेन तेन रूपेण भवनानि भावाः-वस्तुपरिणामविशेषाः, अथवा भवन्त्येमिरुपशमादिभिः पर्यायैरिति भावाः, 'छच्चे'ति चशब्दस्यावधारणार्थत्वात् षडेव-षट्सङ्ख्या एव, तद्यथा-औपशमि कः क्षायिकः क्षायोपशमिकः औदयिकः पारिणामिकः सान्निपातिकश्च, तत्रोपशमो-भस्मच्छन्नाग्नेरिवानुद्रेकावस्था प्रदेशतोऽप्युदयाभाव इतियावत् , इत्थंभूतश्चोपशमः सर्वोपशम | उच्यते, स च मोहनीयस्यैव कर्मणो न शेषस्य, "सखुवसमो मोहस्सेव उ' इति वचनात् , तत्र चैवं शब्दव्युत्पत्तिः-उपशम एवौपश|मिक: स्वार्थिक इकणप्रत्ययः यद्वा उपशमेन निवृत्त औपशमिक:-क्रोधाद्युदयाभावफलरूपो जीवस्य परमशान्तावस्थालक्षणः परिणामविशेषः, क्षयः-कर्मणामत्यन्तोच्छेदः क्षय एव क्षायिकः क्षयेण वा निर्वृत्तः क्षायिकः-तत्कर्माभावफलरूपो विचित्रो जीवस्य परिणतिविशेषः, उदीर्णस्यांशस्य क्षयः अनुदीर्णस्य चांशस्य विपाकमधिकृत्योपशमः क्षयोपशमः स एव क्षायोपशमिकः तेन वा निवृत्तो घातिक| मैक्षयोपशमसंपाद्यो मतिज्ञानादिलब्धिरूप आत्मनः परिणामविशेषः क्षायोपशमिकः, अष्टानां कर्मणां यथास्वमुदयसमयप्राप्तानामात्मीयात्मीयस्वरूपेणानुभवनमुदयः उदय एवौदायिकः यद्वा उदयेन निवृत्त औदायिको भावो-नारकत्वादिपर्यायपरिणतिरूपः, परिणमनं परिणामः-कथञ्चिदवस्थितस्य वस्तुनः पूर्वावस्थापरित्यागेनोत्तरावस्थागमनं स एव तेन वा निवृत्तः पारिणामिकः । एषामेव यथाक्रमं भेदानाह || 4%9494- 95*94%85 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy